SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्क मुग्धाङ्गनानयनपातविलक्षणानि दक्षैरपि क्षणमलक्षितविभ्रमाणि । आलोकितान्यपि नताङ्गि ! निवेदयन्ति वैदग्ध्यसम्पदमनन्यतमां भवत्याः ॥२८॥ यदि वा व्यक्तमपि विज्ञप्यते । कान्तस्तवाहमधरीकृतविश्वरूपः सौन्दर्यविभ्रमवती भवती प्रिया मे। प्रेमावयोरनधिगम्यदशाधिरूढं जानीहि नैष सुकरो विधिनापि योगः ॥ २६ ॥ (प्रविश्य) चेटी- 'भट्टीणि ! देवी तुमं हकारेदि ? (राजा सभयं भुजमपनीय तिरोधत्ते) दमयन्ती-अंबा मं आणवेदि १ एसा समागच्छामि । (इति सर्वाः परिकामन्ति) राजा-(सविषादम् ) कलहंस ! न कोऽपि कार्यनिव्यू हः समभूत् । हा ! हताः स्मः । कुतो नाम पुनरपि रह:सङ्गमः विदूषकः- भो ! अहं से संगमं पुणरवि करेमि । १. भत्रि ! देवी त्वामाह्वयति । - २. अम्बा मामाज्ञापयति ? एषा समागच्छामि । ३. भोः ! अहमस्याः सङ्गमं पुनरपि करोमि (कारयामि)। Jain Education International For Private & Personal Use Only For PL www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy