SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नलविलासे ( दमयन्ती सलज्जमधोमुखी भवति ) यदि वा देवि ! शान्तम् । सत्यमहमेवोपालभ्यो यो गुणमपि दोषमभिदधामि । कपिञ्जला- 'भट्टिणि ! कदं कालविलंवेण, रहस्सं किं पि मंतेहि । ६२ ] दमयन्ती - नाहं रहस्सं मंतिदु सिक्खिदा । राजा - अपि स्मरनागरिके ! किमात्मानं वैदग्ध्यबन्ध्यमावेदयसि १ अपि चाहमस्मि शिक्षितः । कलहंस ! दर्शय रहस्यमस्मदीयम् । ( कलहंसः पत्रमर्पयति । दमयन्ती वाचयति ) अमीभिः संसिक्तैस्तव किमु फलं वारिदघटे ! यदेतेऽपेक्षन्ते सलिलमव टेभ्योऽपि तरवः । अयं युक्तो व्यक्तं ननु सुखयितु' चातकशिशुय एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरात् ॥ २७ ॥ दमयन्ती - ( विमृश्य स्वगतम्) त्वदेकशरणोऽहमित्युक्तं भवति । (प्रकाशम् ) कलहंस ! मुद्धा खु अहं, न गूढभणिदीणमत्थं जाणामि । राजा -- किमेवमभिदधासि १ यतः -- १. भत्रि ! कृतं कालविलम्बेन, रहस्यं किमपि मन्त्रयस्व | २. नाहं रहस्यं मन्त्रयितुं शिक्षिता । ३. कलहंस ! मुग्धा खल्वहम्, न गूढभणितीनामर्थं जानामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy