________________
तृतीयोऽङ्कः
[ ५६
दमयन्ती -- 'जइ एवं ता मुंच मे पाणिम् । नल:--कथमपराधकारी मुच्यते ? दमयन्ती-- 'किं एदिणा अवरद्धं ?
राजा--अनेन त्वत्प्रतिकृतिमालिख्यायमियति विरहानले पातितः।
दमयन्ती-(स्मित्वा) जइ एवं ता अहं पि ते पाणि गहिस्सं । तव पाणिलिहिदेण पडेण अहं पि एदावत्थसरीरा जादा।
राजा-नन्वयं पाणिग्रहणार्थ एव सर्वः प्रयासस्तदनुकूलवादिन्यसि नलस्य ।
विदूषकः- "भोदी ! तए अप्पण ज्जेव अप्पा समप्पिदो, ता दाणिं न छुट्टीयदि ।
(दमयन्ती सात्विकभावान् नाट्यन्त्यधोमुखी भवति)
राजा--(विलोक्य) इमौ प्रेखे कौँ वदनमिदमिन्दुः स्फुटकलः।
कलः सोऽयं नादस्तरुणकलकण्ठीकलकलः । १. यद्येवं तदा मुञ्च मे पाणिम्। २. किमेतेनापराद्धम् ? ३. यद्येवं तदाऽहमपि ते पाणि ग्रहीष्यामि, तव पाणिलिखितेन
पटेनाहमप्येतदवस्थशरीरा जात ।। ४. भवति ! त्वयाऽऽत्मनैवात्मा समर्पितस्तदिदानीं न छुट्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org