________________
५८]
नलविलासे
कपिञ्जला- 'हिययदइयस्स । दमयन्ती- 'ता किं भयवं मणसिजो ? कपिञ्जला-(विहस्य) भट्टिणी जाणादि ।
दमयन्ती- (सरोषमिव) हंजे ! उवहसेसि मं, ता उवचिणिस्सं, न चिट्ठिस्सं । (राजा मुजलतामालम्ब्य 'अलमलम्' इत्यादि पठति)
कलहंसः-देवि ! दुरादागतस्य प्रणयिनो जनस्याभ्यर्थनां नावज्ञातुमर्हसि ।
दमयन्ती- "कधं कलहंसो ! कलहंस! मोयावेहि मे पाणि ।
कलहंसः--देवि ! कलहंसः पाणेाहयिता, न पुनर्मोचयिता।
दमयन्ती-- 'हीमाणहे ! न को वि मह पक्खपायं करेदि।
राजा-शान्तं शान्तम् । हे मृगाक्षि ! नन्वयमस्मि तव पक्षपाती। समादिश कृत्यम् । १. हृदयदयितस्य। २. तत् किं भगवान् मनसिजः ? ३. भी जानाति ।। ४. हले ! उपहससि माम्, तद् उपचेष्यामि, न स्थास्यामि । ५. कथं कलहंस ! कलहंस ! मोचय मे पाणिम् । ६. अहो ! न कोऽपि मम पक्षपातं करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org