SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः सर्वेषामपि सन्ति वेश्मसु कुतः कान्ताः कुरङ्गीदृशो न्यायार्थी परदारविप्लवकरं राजा जनं बाधते । आज्ञां कारितवान् प्रजापतिमपि स्वां पञ्चवाणस्ततः कामार्त्तः क्र जनो व्रजेत् परहिताः पण्याङ्गनाः स्युर्न चेत् ॥ १३ ॥ पुनः काम सर्वस्वगर्भम् । यदि वाशृङ्गारसौरभरहस्यजुषां विधातु पण्याङ्गनाः समुचितं किमु नेत्रपात्रम् ? कुर्वन्ति याः कुसुमकार्मुकजीवितस्य शर्म श्रियो रतिभुवः किल मूल्यमात्रम् ॥ १४ ॥ कलहंसः--एवमेतत् । विचेष्टया यथा किल कुलसुदृशो दृष्टयापि लजन्ते । सैव च यासां देश्या वेश्यास्ताः किं कृती स्पृहयेत् १ || १५ || राजा - कलहंस ! निरूपय, किमस्ति काऽप्यस्मिन् पण्याङ्गनारङ्गे विदर्भदुहितुः सखी वा चेटी वा ? कलहंसः - यदादिशति देवः । ( इति परिक्रामति) विदूषकः - 'भो ! न गंतव्वं, अच्छरापेडयं खु एदं, न माणुसीपेडयं । [ ४९ राजा - ( सरोषम ( खरमुखवचनमपि भवान् कर्णे करोति ! अनर्गलवदनोऽयं ब्राह्मणः, तद् गम्यताम् । १. भोः ! न गन्तव्यम्, अप्सरः पेटकं खल्वेतत्, न मानुषीपेटकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy