SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्क अभिनभः प्रसृतैनवमल्लिकाकुसुमपुज्जरजोभिरयं मधुः । यवनिकां विदधाति वियोगिनां शशिकरव्यतिषङ्गनिवृत्तये॥ ३॥ कलहंस ! विदितवृत्तान्तः स भवान् विदर्भाणाम् । तद् विलोकय किमप्यतिरमणीयमत्र कुसुमाकरोद्यानेऽस्माकमावासस्थानम् । कलहंसः-यदादिशति देवः । विदूषकः-'ही ही ! पडिपुन्ना मे बंभणीए मणोरधा। सत्थिवायणगं पि किं पि दाणं मे रायदुहिया पडिवादयस्सदि। अधवा न सत्थिवायणं करिस्सं, सा मं गद्दहमुहं भणदि । भोदी मयरिए ! णं पुच्छामि, सबकज्जे वि विदब्भपुत्ती मं गद्दहमुहं वाहरदि ? मकरिका-(स्मित्वा) 'न परं गद्दहमुहं, मक्कडकन्नं वंकपायं च । विदूषकः- 'हला मुहरे ! सुमरेसि एदं भणिदं ? राजा-(स्वगतम्) १. अहो अहो ! प्रतिपूर्णा मे ब्राह्मण्या मनोरथाः । स्वस्तिवाचन कमपि किमपि दानं मे राजदुहिता प्रतिपादयिष्यति । अथवा न स्वस्तिवाचनं करिष्ये, सा मां गर्दभमुखं भणति । भवति मकरिके ! त्वां पृच्छामि-सर्वकार्येऽपि विदर्भपुत्री मां गर्दभमुखं व्याहरति ? २. न परं गर्दभ मुखम् , मर्कटकणं वक्रपादं च । ३. अरे मुखरे ! स्मरसि एतद् भणितम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy