SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४४ ] नलविलासे तेनासमञ्जसमसौ रचयन् विशङ्को लोकश्चिरं मनसि वाचि तनौ च हृष्येत् ॥ १ ॥ मुकुल:--साम्प्रतं कासौ ? कुरङ्गकः-~साम्प्रतमसो निषधामधिवसतीति श्रयते । (नेपथ्ये) भोः ! कः साम्प्रतं निषधामधिवसति ? कुरङ्गकः(प्रणम्य) देव ! कापालिकघोरघोणः । राजा--(स्वगतम् ) लम्बोदरोपजनितवासनेन युवराजकूबरेण समाहूतः । भवतु (प्रकाशम् ) भो भोः सैन्याः ! बहिः स्थातव्यं बहिः स्थातव्यम् । न खलु सहकारनिकराभिरामः सोढुमलमयमारामश्चक्रावमदम् । कुराकः-(मुकुलं प्रति) एहि स्वस्थानं व्रजामः । (इति प्रणम्य निष्क्रान्तौ) राजा--अहो ! वसन्तावतारव्यतिषगरङ्गत्परिभोगमखिलं जगत् । परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो __मधुकररुतोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम् । विरलविरलस्वेदोद्दारा वधूवदनेन्दवः । प्रसरति मधौ धान्यां जातो न कस्य गुणोदयः १ ॥२॥ (दिशोऽवलोक्य) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy