SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तृतोयोऽङ्कः मुकुल: - श्वः स्वयंवर विधि: ? कुरङ्गकः -- अथ किम् । मुकुल: - ( विचिन्त्य ) ननु दमयन्तीं चेदिपतये चित्रसेनाय दातुमभिलाषुको विदर्भपतिरासीत् । कुरङ्गकः -- आसीत् प्रतिकृतिदर्शनात् पूर्वम् । मुकुल: - ( ससम्भ्रमम् ) विततमावेदय । कुरङ्गकः -- तां निषधादागतां दमयन्तीप्रतिकृतिमालोक्य कथमियं निषधाय गतेति गवेषयता देवेन ज्ञातं यथाघोरघोणः कापालिको दमयन्तीपरिणयनोत्कण्ठितस्य चित्रसेनस्य मेषमुखनामा प्रणिधिः । सोऽपि लम्बोदरोऽस्यानुचरः कोष्टकनामा चार एव । [ ४३ मुकुल: -- ( सत्वरम् ) ततस्ततः । कुरङ्गकः- ततो धर्मकर्मविप्लवमवधार्य छिन्नकणौष्ठनासिकया लम्बस्तनिकया सह गर्दभमारोप्य देवेन घोरघोणो निर्विषयः कृतः । मुकुल: -- ( साश्चर्यम् ) पश्य मलिनकर्माऽपि कियतीं प्रतिष्ठामधिरोपितो देवेनायं घोरघोणः । कुरङ्गकः – विस्मयनीयं नैवैतत् । आस्तां क्षयं किमिह पातकिनो न यान्ति यान्ति श्रियं समधिकां किमु धार्मिकेभ्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy