________________
४२]
नलविलासे राजा-(स्वगतम् ) कथमयं मागधो मध्यन्दिनवर्णनापदेशेन प्रियामुखदर्शनं पिशुनयति ! भवतु (प्रकाशम्) कलहंस ! दर्शय मार्ग, येन मध्याह्नस्नानाय व्रजामः ।
( इति निष्क्रान्ताः सर्वे )
॥ द्वितीयोऽङ्कः ।।
तृतीयोऽङ्कः।
(ततः प्रविश्य ) कुरङ्गकः-(उच्चैःस्वरमाकाशे) अये मुकुल ! मुकुल ! बकुलप्रभृतीनि प्रगुणय सुरभिकुसुमानि । उपनय पाकाताम्राम्रप्रमुखानि फलानि । ननु पञ्चवाणायतनमिदानी देवी दमयन्ती सगन्धर्वलोका समलङ्करिष्यति ।
(प्रविश्य ) मुकुल:-आर्थ कुरङ्गक ! सर्व प्रगुणमेव पूजोपकरणम् , किन्तु कथय किनिमित्तोऽयमद्य सकलेऽपि राजकुले संरम्भः १
कुरङ्गाका-(सरोषमिव) अये सरल मुकुल ! वैदेशिक इव लक्ष्यसे । एतदपि न जानासि, ननु देव्या दमयन्त्याः श्वः स्वयंवरविधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org