SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः किम्पुरुषः-प्रतिहतोऽयं वितर्कः । यतः-- शुभा वा लोकस्य प्रकृतिरशुभा वा सहभवा __ परेषां संसर्गान खलु गुण-दोषौ प्रभवतः । अपां पत्युमध्ये सततमधिवासेऽपि मृदुतां न यान्ति ग्रावाणः स्पृशति न च पाथः परुषताम् ॥२१॥ अपि च देवस्य निषधस्यापि सन्ततिदुप्रकुतिर्भवतीति श्रद्धालवोऽपि न प्रतिपद्यन्ते, किमङ्ग ! हृदयालव ? कलहंसा-(सरोषम् ) प्रतिहततमोऽयं वितर्कः । भजन्ते कार्याणि प्रकृतिविभवं कारणगतं प्रवादो लोकानां ध्रुवमयमनेकान्तकलुषः । मृदुत्वं तत् किश्चिजलदपयसा विश्वविदितं स कश्चिन्मुक्तानामथ च किल काठिन्यनिकषः ॥२२॥ राजा-किमपरमुच्यते ? असौ पाखण्डिचाण्डालो युवराजस्य निश्चितम् । मातापितापकारीव विन्ध्यस्योन्नतिघातकः ॥२३॥ (नेपथ्ये) अखिलानां बिसिनीनां कमलमुखान्येकहेलया द्रष्टुम् । गगनाचलगर्भमसावधिरोहति कमलिनीनाथः ॥ २४ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy