________________
द्वितीयोऽङ्कः
[ ३६
लम्बस्तनी-(सगर्वम् ) 'भो महाराय ! अपुत्ताणं पुत्वं देमि, अणायारसंजादे गब्भे पाडेमि, दुल्लहं पि पिअजणं संपाडे मि । किं बहुणा ? जं तिहुयणे वि असज्झं तं साहेमि ।
- राजा--(अपवार्य कलहंसं प्रति) अहो धृष्टता ! अहो निर्लज्जता ! विमृश, संवदति किमप्येतदुक्तम् ?
कलहंसः--न किमपि, गर्भपातं पुनर्जानाति । राजा--(सविचिकित्सम् ) अदृश्यमुखेयं तर्हि ।
विदूषकः- भोदी ! एगं दाव मे संसयं भंजेहि । मह चंभणीए माया थूलकुट्टिणी जा पाटलिपुत्ते वसदि, सा किं तुमं आदु अन्ना का वि ?
राजा--[ सरोषम् ] अयि मुखरब्राह्मण ! नाद्यापि परिहासाद् विरमसि । (पुनर्लम्बस्तनों प्रति) भविष्यति नः किमपि भवदर्शनफलम् ?
लम्बस्तनी- 'अवस्सं भविस्सदि ।
राजा--(अपवार्य) तर्हि विदर्भजां सम्पादय । १. भो महाराज ! अपुत्रेभ्यः पुत्रं ददामि । अनाचारसजातान्
गर्भान् पातयामि । दुर्लभमपि प्रियजनं सम्पादयामि । कि
बहुना ? यत् त्रिभुवनेऽप्यसाध्यं तत् साधयामि । २. भगवति ! एकं तावन्मे संशयं भक्ष्व । मम ब्राह्मण्या माता
स्थूलकुट्टिनी या पाटलिपुत्रे वसति, सा किं त्वमथवाऽन्या काऽपि ? ३. अवश्यं भविष्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org