________________
द्वितीयोऽङ्कः
[३७
विदूषकः-- 'जइ एसा लमहिसी कडियडं नचावंती ममोवरि पडेदि, ता धुवं मं मारेदि ।
राजा--वयस्य ! अस्मास्वनुग्रहेण राजपुत्र्येयं प्रषिता, तदेतामवज्ञातुं नार्हसि ।
विदूषकः- 'भो ! न मए एदाए अवन्ना कीरदि, किन्तु अप्पणो रक्खा।
राजा-(सरोषमिव) सर्वथा परिहासावसरं न वेत्सि।
विदूषकः-(निःश्वस्य) जदि मए मुदेण कावि फलसिद्धी भोदि, ता भोदु, इह ज्जेव चिहिस्सं ।
राजा-लम्बस्तनि ! इदमासनमास्यताम् ।
विदूषकः- भोदी लंबत्थणीए दुबलं खु एदं आसणं । ता तुमए सावहाणाए उवविसियव्वं ।
( कलहंसः संज्ञया विदूषकं वारयति )
राजा-लम्बस्तनि ! कुशलवत्यसि ? १. योषा स्थूलमहिषी कटितट नर्तयन्ती ममोपरि पतेत् , तदा
ध्रवं मां मारयेत् । २. भो ! न मयतस्या अवज्ञा क्रियते, किन्त्वात्मनो रक्षा । ३. यदि मया मृतेन काऽपि फलसिद्धिर्भवति, तदा भवतु, इहैव
स्थास्यामि । ४. भगवति ! लम्बस्तन्या दुर्बलं खल्वेतदासनम्, ततस्त्वया साव
धानया उपवेष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org