SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्क कलहंसा-घोरधोणेन च भीमरथाय सन्दिष्टम् , यथेयं दमयन्ती कलचुरिपतेर्भार्या भविष्यति ।। राजा-(सभयमात्मगतम्) मुषिताः स्मः (प्रकाशम्) स घोरघोणः किमतीन्द्रियमर्थ जानाति ? कलहंसः-दाम्भिकोऽयं न किमपि जानातीति तत्रत्याः कथयन्ति । मया पुनगवेषयतापि न कोऽपि दम्भो लक्षितः। राजा--अत्रार्थे तत्रत्याः प्रमाणं न भवान् । यतःआगन्तुकोऽनुरागं नेतुमविज्ञातदूषणः शक्यः। विज्ञातदृषणः खलु जनस्तु शक्यो न सहवासी ॥१८॥ किन्तु कथय सहवास्यपि राजा केन हेतुना तस्य दम्भं नावधारयति । कलहंसः--राज्ञो व्यामोहो घोरघोणस्य च भाग्यमनवधारणे हेतुः। राजा--उपपन्नमिदम्-- जन्मिनां पूर्वजन्माप्तभाग्यमन्त्राभिमन्त्रितः । अचेतनोऽपि वश्यः स्यात् किं पुनर्यः सचेतनः १ ॥१६॥ ततस्ततः। कलहंसः--ततो राजापि कापालिकप्रत्ययेन स्वदुहितरं चित्रसेनाय दातुमिच्छति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy