SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३४] नलविलासे राजा-(सभयम्) कोऽयमुत्पातः ? ततस्ततः । कलहंसः-अनन्तरं च कपिञ्जले !प्रतिकृतिमेतां ताताय दर्शय, चित्रपटमेतं च देवतागृहे निघेहीत्यभिधाय राजतनया मां विसृष्टवती। राजा-(सभयम् ) कथं न किमपि प्रत्युत्तरम् ? कलहंसः-किन्तु देवप्रतिकृतिपटस्य देवतागृहविमोचनेन दत्तमेव राजपुच्या प्रत्युत्त म् । राजा-वाचिकं श्रोतुमिच्छामि । मकरिका- 'इदं पच्छा मम कहिदं । जहाइह अस्थि घोरघोणो जहत्थनामा कवालिओ एगो। दूरत्तणस्स कवडित्तणस्स पढमं पइट्टाणं ॥ १६ ॥ लंबत्थणी त्ति नाम भजा तस्सत्थि खुज्जतणुल(ज)ट्ठी। सयलाणं दोसाणं ठाणं दुई य मिहुणाणं ॥ १७ ॥ राजा-( कलहंसं प्रति) असंस्कृतवागियं मकरिका न स्फुटमर्थमावेदयति । ततस्त्वमेव कथय । १. इद पश्चात् मम कथितम् । यथा इहास्ति घोरघोणो यथार्थनामा कापालिक एकः । क्रूरत्वस्य कापट्यस्य प्रथमं प्रतिष्ठानम् ।। लम्बस्तनीति नाम भार्या तस्यास्ति कुब्जतनुयाष्टिः । सकलानां दोषाणां स्थानं दूती च मिथुनानाम् ।। - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy