SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [३३ राजा-( ससम्भ्रमम् ) लक्षितः कोऽप्यवलोकनस्याभ्युपायः कलहंसेन ? विदूषकः-(सरोषम् ) 'भो ! किं पुच्छेसि १ पुलकिदेणं अंगेणं जेव निवेदिदं। कलहंसः-लक्षितः कपिञ्जलावचनात् । राजा-(ससम्भ्रमम् ) किं तत् कपिञ्जलावचः ? कलहंसः-इदं वचो यथा देवि ! किमर्थमत्यर्थमायास्यते पुनः पुनरवलोकनेन दृष्टिः १ सर्वथाऽनुहरत्येवैषा प्रतिकृतिदेवीवपुषः। राजा-साधु कपिजले ! भावज्ञानकुशले ! साधु, ततस्ततः । __कलहंसः-अत्रान्तरे च देवी प्रतिकृत्या सह निरूप्यते न पुनमूलरूपेणेति वदन्ती मकरिका कापालिकानीतां प्रतिकृति राजपुच्या दर्शितवती । राजा--समीचीनमाह मकरिका ! यथा मुख्यस्य सौन्दर्य प्रतिबिम्बस्य नो तथा । सूर्याचन्द्रमसौ वारिसङ्क्रान्तौ क्लान्ततेजसौ ॥ १५ ॥ कलहंसः-ततो मकरिके ! मत्करलिखितेयं प्रतिकृतिः कुतस्तवैतस्याः प्राप्तिरिति सरोषं राजपुत्री व्याहरत् । १. भोः ! किं पृच्छसि ? पुलकिदेनाङगेनैव निवेदितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy