SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२] नलविलासे शौण्डीरेषु भयोज्ज्वलेषु शुभगोत्तंसेष च ग्रामणी देवो नैषधभूपतिः श्रुतमिदं स्वर्भूर्भुवो भूरिशः । एतच्च प्रथितं विदर्भतनया यद् विश्वविश्वस्फुरच्छौर्यादिप्रसरं वरं स्पृहयति ब्रूमः किमन्यत् ततः ? ॥१४॥ राजा-(स्वगतम् ) आः ! किमतः परं राजतनयाभिधास्यतीति यत्सत्यमाकुलोऽस्मि । भवतु (प्रकाशम् ) ततः किमुक्तवती ? कलहंसा-राजतनया न किंचित् । राजा-(सखेदमात्मगतम् ) हा ! हताः स्मः। कलहंसः-किन्तु कपिजला नाम विदर्भराजचामरग्राहिणी समीपस्थितेदमुक्तवती ।। राजा-(संसम्भ्रमम् ) किमाह स्म सा ? कलहंसः-इदमाह स्म सा । अनुरूपं योग ब.तु मीहते स भगवान् कलहंसः। राजा-(सहर्षमात्मगतम्) इयत्प्रत्युञ्जीविताः स्मः । जानाति तावदेतत्परिकरलोको यथा दमयन्त्या निषधपतिरनुरूपो वरः । (प्रकाशम् ) ततस्ततः । कलहंसः-अनन्तरं च स्मितं कुल्ला राजतनया देवस्य प्रतिकृतिपटं मम करतलादादाय पुनः प्रतिकृति पुनः पुलककोरकितमात्मानं सुचिरमालोकितवती । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy