SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [३१ राजा-( सप्रमोदम् ) मकरिके ! चतुराऽसि विकटकपटनाटकघटनासु । (विमृश्य ) सर्वथा कैतवं निन्द्यं प्रवदन्तु विपश्चितः। केवलं न विना तेन दुःसाधं वस्तु सिध्यति ॥ ११ ॥ किम्पुरुषः-देव ! किमपरमुच्यते ? कामं शाठ्यव्यपोहेन परलोकः प्ररोहतु। इहलोकप्रतिष्ठा तु शाठ्यप(पुण्येव निश्चितम् ॥१२॥ कलहंसः—देव ! निर्मायो यः कृपालुर्यः सत्यो यः सनयश्च यः । प्रायेण तत्र लोकस्य क्लीवबुद्धिर्विजृम्भते ॥ १३ ॥ राजा-(सत्वरम् ) ततस्ततः। कलहंसः-समलङ्कृतासने मयि राजपुत्री सलीलमिदमभिहितवती-स भवान् कलहंसोऽसि ? राजा-अहो ! गिरां मधुरिमा । ततः। कलहंसः -मयोक्तम्-यथा जानाति देवी । ततो राजपुत्री 'समासतो विवक्षितमर्थमावेदय' इति निगदितवती । अनन्तरमहमुक्तवान। राजा-(सौत्सुक्यम् ) किमुक्तवानसि ? कलहंसः-इदमुक्तवानस्मि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy