SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [ २९ किम्पुरुषः-(सासूयमिव) तदस्ति किं किमपि यत्कविगिरामप्यगोचरः ? राजा-(सरोषममात्यं प्रति)अयुक्तमभिदधासि । यतःअधिका वर्णना वाव क्वचिद् वयं ततोऽधिकम् । वण्यस्याकान्ति-कान्तिभ्यां द्वयमप्युपपद्यते ॥६॥ अत्यन्तकमनीयं हि स्तोतुवाचोऽपि नेशते । स्वरूपतः सुधास्वादं वक्तुं ब्रह्मापि न क्षमः ॥१०॥ तदलमतिविस्तरेण । कलहंस ! कथय तावदितः स्थानाद् गतेन किमाचरितं त्वया ? कलहंसः-देव ! देव प्रतिकृति दमयन्तीप्रतिकृति चादाय देवपादान प्रणम्य कतिपयैरेवाहोभिरहं कुण्डिनमधिगतवान् । राजा-( सत्वरम् ) ततस्ततः । कलहसः-अनन्तरमनया मकरिका स्वाभिजनद्वारेण कथमप्यात्मनः कन्यान्तःपुरे प्रवेशः कृतः। राजा-( सस्पृहम्') आयुष्मति मकरिके ! तत्रभवती भवती प्रथमं वैदर्भी दृष्टवती मकरिका- 'अध इं। राजा-ततस्ततः। १. अथ किम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy