SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २८] नलविलासे कलहंसः-अपि च स्वयं विमृश्य सोऽयमवयवाना सौन्दर्यलेशो देवाय विज्ञपितः । परमार्थेन तुवदनशशिनो नेत्राम्भोजद्वयस्य कपोलयोः स्तनकलशयोर्दोष्णो भेनितम्बतटस्य च । तनुतनुलताज्योत्स्नावीचीनिमग्नदृशा मया न खलु कलितो दोषः कश्चिद् गुणो न च कश्चन ॥७॥ विदूषकः-(सहपम्) 'ही ही भो ! तीए अयं जेव महतो दोसो जं सरीरे तेएण पिखिदु पि न सकीयदि । राजा-( सस्पृहमात्मगतम् ) आः ! कि भविष्यति स कोऽपि कदापि विश्व___ कल्याणकन्दजलदप्रतिमो मुहूर्तः । यस्मिन् विदभंतनयावदनेन्दुसङ्गा. दुत्फुल्लमक्षिकुमुदं तदिदं मम स्यात् ॥ ८॥ कलहंसः - किश्चिन्निनिमेषनेत्रविषय एव वैदर्भीरूपप्रकरः प्रत्यक्षीकृतोऽपि न शक्यते वाचा वर्णयितुम् । राजा-सप्रश्रयमात्नगतम्) निर्निमेषनेत्रविषय एव वैदर्भीरूपप्रकर्ष इति पदमस्माकमुपश्रतिः । ध्रवं भविष्यति तदर्शनं नः। १. अहो अहो ! भो: ! तस्या अयमेव महान् दोषो यत् शरीरे तेजसा प्रेक्षितुमपि न शक्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy