SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [ २७ राजा - यथायं कलहंसो वर्णयति, तथैव यदि तस्या अङ्गसन्निवेशो यदि च भगवाननुकूलो विरश्चिस्तदा न निषधाधिपतेरपरो भूर्भुवःस्त्रत्रयेऽपि पुण्यप्रागल्भ्यवान् । विदूषकः - भो कलहंस ! ताए कन्नगाए मह वत्ता कावि पुच्छिदा ? मकरिका - पुच्छिदा । विदूषकः - ( सहर्षम् ) किं ताए भणिदं ? मकरिका - एदं भणिदं, सो गद्दहमुहो किं करेदि ? विदूषकः - ( सरोषम् ) हुं सा मं गद्दहमुहं भणदि, ता न तस्स वन्नणं सुणिस्सं । कलहंसः - - अपरं च । कार्कश्यभूः स्तनतटी न गिरां विलासः केशाः परां कुटिलतां दधते न चेतः । तस्याः कुरङ्गकदृशो नृपचक्रशक्र ! जाड्य गतौ न तु मतौ विधृतावकाशम् ॥ ६ ॥ किम्पुरुषः - (स्वगतम् ) ध्रुवमीदृशस्य स्त्रीरत्नस्य सम्प्राप्तिर्भरतार्द्ध राज्यमुपनयति । १. भोः कलहंस ! तया कन्यकया मम वार्ता काऽपि २. पृष्टा । ३. किं तया भणितम् ? ४. एतद् भणितम् स गर्दभमुखः किं करोति ? " ५. हुं ! सा मां गर्दभमुखं भणति, ततो न तस्या वर्णनं श्रोष्यामि । Jain Education International For Private & Personal Use Only पृष्टा ? www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy