________________
२२ ]
नलविलासे द्वितीयोऽङ्कः।
( नेपथ्ये ) स्वागतं कलहंसाय सपरिच्छदाय । ( ततः प्रविशति कलहंसः मकरिकाप्रभृतिश्च परिवारः)
कलहंसः--कथं मत्तमयूरोद्यानरक्षकः शेखरोऽस्मदागमनमनुमोदते ?
(प्रविश्य ) शेखरः-आर्य कलहंस ! युष्मदागमनोत्कण्ठितोऽतीव देवो वर्त्तते । तदहं गत्वा निवेदयिष्यामि । ( इति निष्क्रान्तः)
कलहंसः--अयि मकरिके ! कच्चिदिदमभिहिता त्वया लम्बस्तनी ? यथा यावद् वयं त्वदागमनं देवाय विज्ञापयामः, तावत् त्वया मत्तमयूरोद्यान एव स्थातव्यम् ।
मकरिका--'अध इं।
कलहंसा-अपि प्रगुणीकृतानि *देवस्योपायनीकर्तुं विदर्भमण्डलोद्भवानि वस्तूनि । __ मकरिका--सव्वमाचरिदं ।
( नेपथ्ये) भो भोः सभाचारिणः ! प्रगुणीक्रियता सिंहासनम् । अहो गन्धर्वलोकाः ! प्रारभ्यता सङ्गीतकम् । इदानीमास्थानमलङ्करिष्यति देवः। १. अथ किम् । ॐ स्योपनयनी। २. सर्वमाचरितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org