SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः मकरिका - 'अथ इं । राजा - अनुगृहीतोऽस्मि वेधसा ( पुनरपवार्य ) कलहंस ! त्रिजगतोऽप्यसुलभं वस्तु सम्पादयितुं न शक्नोषि ? कलहंसः - किमपरमुच्यते १ यदि मत्प्राणैरपि सम्पद्यते, तदा सम्पादयामि | १. अथ किम् । ( नेपध्ये तूयध्वनि: ) कलहंसः - देव ! युगादिदेवदेवतायतन सन्ध्याबलिपटहध्वनिरयम् । राजा -- (स्वगतम् ) अहो ! परमं शकुनम् । ( पुनविमृश्य ) प्रेषयाम्येनं दमयन्त्याः पार्श्वे । इयं च मकरिका विदर्भभाषावेषाचारकुशला सहैव यातु । ( पुनर्नेपथ्ये ) भो भो गन्धर्वलोकाः ! स्वकार्याणि कृत्वा शीघ्रमागच्छत युगादिदेव सन्ध्यासङ्गीतक मनुष्ठातुम् । राजा - ( सप्रमोदमात्मगतम् ) अहो ! प्रयोजनसमर्थः शब्दपातः । ध्रुवमयं कलहंसः प्रयोजनमाधाय शीघ्रमायास्यति । भवतु । ( प्रकाशम् ) कलहंस ! चित्रकर्मालङ्कमणान्युपकरणानि प्रगुणयितु ं व्रज । मकरिके ! वैदर्भी प्रतिकृतिं त्वं गृहाण | वयस्य ! दर्शय पन्थानं येन सन्ध्याविधिमाधाय सौधमलङ्कुर्महे । Jain Education International [ २१ ( इति निष्कान्ताः सर्वे ) ॥ प्रथमोऽङ्कः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy