________________
प्रथमोऽङ्कः
__ [१७ यद्दन्तान्तविनिर्मिते प्रचलनप्रेसोलिनी कुण्डले
काण्डीरस्मरपाण्डुगण्डफलकावस्याश्चिरं चुम्बतः॥१६॥ (पुनः सविनयम् ) मुने ! सर्वथा कथय किमिदम् ?
कापालिकः--प्राणात्ययेऽपि किमसत्यमाभाष्यते ? राजा-भवतु तावत् , कथय कुत्रेयं समासादिता ? कापालिक:-अत्रैव कानने ।
राजा-यद्येवं ध्रुवमियं देवताप्रतिकृतिः काऽपि कस्यापि युगादिदेवदेवतायतनवन्दनार्थमागतस्य त्रिदशस्य हस्तानिपतिता, अनेन च समासादिता ।
विदूषकः- 'भो ! दाव पच्छा एदा जाणेयव्या, पढमं एदाए समीवे मं धरेध, जेण दिहिदोसो से न भोदि ।
राजा-(सप्रमोदम् ) साधु वयस्य ! साधु सर्वथा केलिकुशलोऽसि (दिशोऽवलोक्य) काऽत्र भोः! करङ्कवाहिनीषु ?
(प्रविश्य ) युवतिः- एसा चिट्ठामि ।
राजा-अयि मकरिके ! वयस्याय प्रसादताम्बूलं प्रयच्छ । १. भोस्तावत् पश्चादेषा ज्ञातव्य। । प्रथममेतस्याः समीपे मां घरत,
येन दृष्टिदोषोऽस्या न भवति । २. एषा तिष्ठामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org