SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। [१५ कापालिकः-(विलोक्य सभयमात्मगतम्) हा ! हतोऽस्मि । ( युद्धाद् विरम्य प्रकाशमुच्चैःस्वरम् ) भो भो ! नालोकनीयं मन्मन्त्रपुस्तकम् । कलहंसः-(विलोक्य) कथं वस्त्रान्तरे लेखः ? राजा-(गृहीत्वा वाचयति) स्वस्ति । महाराजचित्रसेनं मेपमुखः प्रणम्य विज्ञापयति यथा सर्वमपि युष्मन्मनोरथानुरूपं सम्भाव्यते । इमं च कोष्टकहस्तात् तत्प्रतिकृतिग्राह्य ति । कलहंसः कोऽयं चित्रसेनः ? को मेषमुख १ कः कोष्टकः १ का वा सा ? यस्याः प्रतिकृतिः । राजा-अव्यक्तस्थानश्वारलेखोऽयं न शक्यते ज्ञातुम् । भवतु तावत् , पुरोऽवलोकय । (कलहंसः तथा करोति) कापालिक:-(समयमुच्चैःस्वरम् ) तदेव व्याहरति । कलहंसा-(विलोक्य सहर्षमात्मगतम् ) अहो ! स्त्रीरत्न सेयं स्वप्नदृष्टा मुक्तावली। स चैव नैमित्तिकावेदितः स्वप्नार्थज्ञानप्रत्ययहेतुरथः । (प्रकाशम्) देव ! सफलीक्रियता नेत्रनिर्माणं लोकोत्तरवस्तुदर्शनेन । राजा-(विलोक्य सहर्षप्रकर्षम् ) अहो ! बहूनां वस्तूनामेकत्र वासः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy