________________
नल विलासे
कापालिक:-यथेच्छं विज्ञपय । विदूषकः - 'जह मे इमं खड्ड गं समप्पेसि, ता तुह बहिणीए खंडणोवगरणं मुसलं भोदि ।
१४]
कापालिकः - ( सरोषम् ) आः पाप ! ब्राह्मणत्रुव ! मामासादितपरमब्रह्माणं तपोधनमवजानासि ? एष ते खट्वा - गेन शिरः पातयामि ।
विदूषकः - ( सरोषमुत्थाय ) 'अरे दासीपुत्त ! कावालिया ! लहु इदो एहि, जेण दे एदिणा जन्नोपवित्तेण मत्थयं तोडेमि । (उभौ नियुध्येते )
राजा - अलमलमनुचिताचरणेन । कलहंस ! निवारय निवारय ।
कलहंसः - (परिक्रम्य) किमिदं युध्यमानस्य कापालिनः कक्षातः पतितम् ?
राजा - ( विलोक्य) कलहंस 1 किमिदम् १ ! कलहंसः - देव ! अनेकवस्त्रग्रन्थिनिबद्धा मात्रेयं कापालिनः सम्भाव्यते ।
राजा - मध्यमवलोकय । ( कलहंसः तथा करोति )
१. यदि मे इदं खट्वाङ्ग समर्पयसि तदा तव भगिन्याः खण्डनोपकरणं मुशलं भवति ।
२. अरे दासीपुत्र ! कापालिक ! लघु इत एहि, येन त एतेन यज्ञोपवीतेन मस्तकं त्रोटयामि |
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org