________________
प्रथमोऽङ्कः ।
[१३ कापालिकः--(सोपहासम् ) किमभिधानोऽयं महोपाध्यायः ?
राजा-खरमुखाभिधानोऽयम् । कापालिकः-(सोपहासम्) आकारानुरूपमभिधानम् । राजा-मुने! किमभिधानमलङ्करोषि ? । कापालिकः-लम्बोदराभिधानोऽस्मि । विदूषकः-'आगिदीए सरिसं नाम ।
राजा-( सस्मितम् ) वयस्य ! सर्वस्याभ्यागतो गुरुरिति नैनं हसितुमर्हसि ।
विदूषकः--समाणे वि बंभचारित्तणे किं मे एस हसदि, अहं कीस न हसिस्सं!
राजा--अपयोजकः सामान्योपन्यासः परिहासस्य । समेऽपि देहदेशत्वे तूलमप्यक्षि पीडयेत् । पाषाणघपणेनापि पादाः कान्तिमुपासते ॥ १५ ॥
विदषकः--भो कावालिया ! जइ मे पत्थणं विहलं न करेसि, ता किं पिं पत्थेमि ।
१. आकृत्याः सदृश नाम ।
२. समानेऽपि ब्रह्मचारित्वे किं मामेष हसति ? अहं कथं न हसिष्यामि ?
३. भोः कापालिक ! यदि मे प्रार्थनां विफलां न करोषि, तदा किमपि प्रार्थये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org