SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १२ ] नलविलासे कापालिकः - - नवनवतीर्थदर्शनश्रद्धालूनां तपस्विना कुत एव देशावधिः । राजा - (स्वगतम् ) नियतमयं चरः । अनुचितमाचरितमस्माभिर्यदस्मिन्ननावृते वने समीपीकृतः । कदाचिदयं घातकोऽपि स्यात् । भवतु तावत् | ( प्रकाशम् ) कुतो भवति दीक्षामः ? कापालिक:- राम गिरिनिवासिनः कापालिक चूडामगणेश्चन्द्रशेखरात् । विदूषकः - दिट्टिया महं सालो समागदो । सो खलु चंदसेहरो मह बंभणीए पिआ । कलहंसः -- ( विहस्य ) मुने ! महोपाध्यायोऽसौ निपधायां तदमुना भगिनीपतिना भवद्भिने लज्जितव्यम् । कापालिकः - ( सरोषम् ) सम्पदापि निवेदितमस्य महोपाध्यायत्वम् । राजा - (स्मिन्दा ) अल्पसम्पत्तिकत्व महेतुरमहोपाध्यायत्वे | अल्पवेतना हि विद्याजीविनः प्रायेण । देवीं वाचमविक्रेयां विक्रीणीते धनेन यः । क्रुद्धेव तस्मै सा मूल्यमत्यल्पमुपढौकयेत् ॥ १४ ॥ १. दिष्टया मम श्यालः समागतः । स खलु चन्द्रशेखरो मम ब्राह्मण्याः पिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy