________________
प्रथमोऽङ्कः।
राजा-(समन्ततो विलोक्य ) दात्युहकुक्कुभकपिञ्जलचक्रवाक
सारङ्गभृङ्गकलकूजितमञ्जुकुञ्जाः । उद्यानकेलिसरसीनवफुल्लमल्लीवल्लीगृहाङ्गणभुवो रमयन्ति चेतः ॥ १२ ॥
(प्रविश्य) प्रतीहारः-देव ! निवधाधिपते ! एको ब्राह्मणो द्वारि वर्तते।
राजा--(स्वगतम् ) नैमित्तिकः खल्वयम् । (प्रकाशम्) वयस्य ! क्षणमेकमिदानों मङ्गलाभिधायिना भवता भाव्यम् ।
विदूषकः-(सरोषम्') 'किं अहं तए सव्वदा अमङ्गलभासगो जाणिदो ? ता न इत्थ चिट्ठीस्सं । (इति गन्तुमिच्छति)
राजा-वयस्य ! न गन्तव्यम् । विदूषकः-'न तुह सयासे वि चिट्ठिस्सं, किंतु गरुअनिअवंभणीए चलणस्स सेविस्सं । (इति गन्तुमिच्छति)
कलहंसः--खरमुख! यदादिशति देवस्ता क्रियताम् ।
१. किमहं त्वया सर्वदाऽमङ्गलभाषको ज्ञातः ? । ततो नात्र स्थास्यामि।
२. न तव सकाशेऽपि स्थास्यामि, किन्तु निजगुरुब्राह्मण्याश्चरणी सेविष्ये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org