________________
प्रथमोऽङ्कः ।
( नेपथ्ये )
वयस्य कलहंस ! परमेश्वरस्य युगादिदेवस्य सपर्यया वयमतीव श्रान्ताः । तदादेशय खरमुखम् । येनास्मद्विश्रामहेतुं सच्छायं कमप्युद्यान प्रदेश मवलोकयति ।
सूत्रधारः - ( समाकर्ण्य ) कथं नलनेपथ्यधारी नटो वदति ? तदेहि मारिष वयमप्यनन्तरकरणीयाय सज्जीभवाम । ( इति निष्क्रान्तौ )
आमुखम् ।
( ततः प्रविशति राजा कलहंसादिकश्च परिवार: )
राजा - - ( वयस्य कलहंस इत्यादि पुनः पठति ) कलहंसः -- हो ! खरमुख ! गवेषय कमपि देवस्य विश्रामहेतुमारामप्रदेशम् ।
[ ५
( प्रविश्य )
विदूषकः -- भो कलहंस ! अगकरालवालविहुरे आरामकुहरे एयंमि एगागी भयामि, ता न गवेसइस्सं ।
राजा - - ( स्मित्वा ) वयस्य ! महावीरः खल्वसि, ततस्त्वमेव (वं ) विभेषि ।
१. भो कलहंस ! अनेक करालव्यालविधुरे आरामकुहरे एतस्मिन् एकाकी बिभेमि तन्न गवेषयिष्यामि ।
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org