SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । सूत्रधारः - मारिष ! मा शङ्किष्ठाः श्रुतीनां पीयूषं कविकुलगिरां कीर्तिपटहो रसापीतेः पात्रं रघु-यदुचरित्रं विजयते । परं किञ्चित् किञ्चिन्नलललितमप्येतदमृतस्रवन्तीं श्रोतॄणां श्रवसि विनिधातु प्रभवति ॥ ६ ॥ नट: - ( विमृश्य ) भाव ! अयं कचिः स्वयमुत्पादक उताहो परोपजीवकः । सूत्रधारः - अत्रार्थे तेनैव कविना दत्तमुत्तरम् -- जनः प्रज्ञाप्राप्तं पदमथ पदार्थ घटयतः पराध्वाध्वन्यान् नः कथयतु गिरां वर्त्तनिरियम् । अमावास्यायामप्यविकलविकासीनि कुमुदा | ३ न्ययं लोकश्चन्द्रव्यतिकरविकासीनि वदति ॥ ७ ॥ अपि च शपथप्रत्येयपदपदार्थसम्बन्धेषु प्रीतिमादधानं जनमवलोक्य जात खेदेन तेनेदं चाभिहितम् - स्पृहां लोकः काव्ये वहति जरठैः कुण्ठिततमैर्वचोभिर्वाच्येन प्रकृतिकुटिलेन स्थपुटिते । वयं वीथीं गाढुं कथमपि न शक्ताः पुनरिमामियं चिन्ता चेतस्तलरयति नित्यं किमपि नः ॥ ८ ॥ नटः -- ( क्षणं विमृश्य) भाव ! अद्य नटी विषादिनी । सूत्रधारः - - जानासि किमपि विषादस्य कारणम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy