SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २] नलविलासे ( प्रविश्य ) नटः-भाव ! दत्तः कोऽपि सामाजिकैरभिनयादेशः ? सूत्रधारः-दत्तः श्रीमदाचायहेमचन्द्रस्य शिष्येण रामचन्द्रेण विरचितं नलविलासाभिधानमाद्यं रूपकमभिनेतुमादेशः। नट:-भाव ! एतस्यां रामचन्द्रकृतौ सम्भाव्यते कोऽपि सामाजिकानां रसास्वादः ? सूत्रधारः-मारिष ! सम्भाव्यत इति किमुच्यते ? यतः प्रवन्धानाधातु नवभणितिवदग्ध्यमधुरान् कवीन्द्रा निस्तन्द्राः कति नहि मुरारिप्रभृतयः। ऋते रामानान्यः किमुत परकोटौ घटयितुं रसान् नाट्यप्राणान् पटुरिति वितर्को मनसि नः ॥३॥ अपरं च प्रबन्धा इक्षुवत् प्रायो हीयमानरसाः क्रमात् । कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरः ॥ ४ ॥ नटः-भाव ! अयमर्थः सत्य एव । यतःसङ्ख्यायामिव काकुत्स्थ-यादवेन्द्रप्रवन्धयोः । वर्धमानैगुणैरङ्काः प्रथमानतिशेरते ॥ ५॥ किन्तु रघु-यदुचरितं निसर्गतोऽपि रमणीयम् , अतस्तत्र सुकरो रसनिवेशः नलचरितं तु न तथा, ततः साशङ्कोऽस्मि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy