________________
॥ अहम् ॥ तपागच्छाधिराज महाराष्ट्र देशोद्धारक
पू. आ श्री विजयरामचन्द्रसूरिभ्यो नमः। कलिकालसर्वज्ञ श्री हेमचन्द्रसूरीश्वर-पट्टपुरन्दर गुरुसमर्पित कविकटारमल्लाचार्यदेव
श्रीरामचन्द्रसूरिवरविरचितं नलविलासम् ।
वैदर्भी रीतिमहं लभेय सौभाग्यसुरभितावयवाम् । दमयन्ती वैरस्यं दिशति गिरा या परां लक्ष्मीम् ॥१॥
(नान्द्यन्ते) सूत्रधारः-( मप्रमोदम् ) कविः काव्ये रामः सरसवचसामेकवसति
नलस्येदं हृद्यं किमपि चरितं धीरललितम् । समादिष्टो नाट्ये निखिलनटमुद्रापटुरहं
प्रसन्नः सभ्यानां कटरि ! भगवानेष स विधिः ॥ २॥
तद् गृहं गत्वा रङ्गोपजीविनः प्रगुणयामि ( इति परिक्रामति । पुरोऽवलोक्य) कथमयमित एवाभिपतति वयस्यो मन्दारः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org