SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः दमयन्ती-- 'अज्ज ! एसा मम जनेव पडिच्छाया, न उण अज्जउत्तो १ ता किं सच्चकं ज्जेव परिचत्तम्हि ? ( आत्मानमवलोक्य सखेदम् ) मुक्ताहार ! विहारमातनु ननु स्वैरं क्वचित् साम्प्रतं पुष्पापीड ! किमद्य पीडयसी मे सीमन्तसीमाङ्गणम् ? मञ्जीराणि ! रणन्ति किं श्रवणयोः पुष्णीथ दुःस्थां व्यथां ? त्यक्ता तेन यदर्थमर्थितवती युष्मासु मैत्रीमहम् ॥१४॥ राजा-(सरभसमुत्थाय) पतिव्रते ! पतिव्रते ! विशरारूणि प्रायेण शरीरिप्रमाणि । विशेषतस्तव तस्य भतु रकुलीनस्य । तदलममुना गवेषितेन । अस्माकमभ्यणमुप॑हि । इतः प्रभृति नस्तत्रभवती देवता वा माता वा सुता वा । सपर्णः-देव ! कोऽयं व्यामोहः ? ननु विज्ञप्तं मया देवाय नटविभीषिकेयम् । सिंहासनालङ्करणेन प्रसादः क्रियताम् । (राजा सविलक्षमुपविशति) नल:---(सखेदमात्मगतम्) मातः ! प्रसीद वसुधे ! विहितोऽञ्जलिस्ते पातालमूलपथिकं विवरं प्रयच्छ । १. आर्य ! एषा ममेव प्रतिच्छाया न पुनरार्यपुत्रः ? तत् कि सत्यमेव परित्यक्तास्मि ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy