________________
१०४ ]
नलविलासे
दमयन्ती - 'एदसि सरे मह निमित्तं ससिलमा
•
दु गदो भविस्सदि । ता इत्थ गवेसिस्सं ।
I
गन्धारः - वाले! मूढाऽसि । यस्त्वां सुप्तामपजहाति, स किं त्वन्निमित्तमम्भः समानयति ?
दमयन्ती - अध मा एवं भण । अहं पाणेहिंतो वि अज्जउत्तस्स पियदरा ।
राजा - परित्यागेनाप्यमुना निवेदितं त्वयि भर्तु :
प्रेम | दमयन्ती - ( परिक्रम्य ) कथं एदं सरो, न उण अज्जउत्तो दीसदि । भोदु एदं चक्कवायघरणिं पुच्छामि ।
सहि ! चक्कवायदइए ! दइयं किं मह न साहसे सहसा ? पियविरहियाण दुक्खं पच्चक्खं तुज्झमणुनिच्चं ॥ ६ ॥
राजा - उचितमुक्तवती ।
अनुभूतं न यद् येन रूपं नावैति तस्य सः । न स्वतन्त्रो व्यथां वेत्ति परतन्त्रस्य देहिनः ॥ ७ ॥
१. एतस्मिन् सरसि मम निमित्त सलिलमानेतुं गतो भविष्यति । तदत्र गवेषयिष्यामि ।
२. अथ मंवं भण | अहं प्राणेभ्योऽपि आर्यपुत्रस्य प्रियतरा ।
३. कथमेतत् सरो न पुनरार्यपुत्रो दृश्यते ? भवतु एतां चक्रवाकगृहिणीं पृच्छामि ।
?
सखि चक्रवाकदयिते ! दयितं किं मम न कथयसि सहसा प्रिय विरहितानां दुःखं प्रत्यक्षं तवानुनित्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org