________________
१०२]
नलविलासे राजा-एष सावधानोऽस्मि । ततः प्रस्तूयताम् ।
( नेपथ्ये ) 'हा अज्जउत्त ! परित्तायाहि मं, भायामि एगागिणी करालवालविहुरे रनकुहरे।
नल:-(स्वगतम् ) मयेव दुरात्मना केनाप्येकाकिनी गहने वने किं प्रिया परित्यक्ता ?
राजा-अमात्य ! प्रथमेऽपि नाट्यारम्भे कष्टमतिकरुणो रसः।
(नेपथ्ये ) अये पिङ्गलक ! तामनुकूलय तपस्विनी येन सार्थवाहान्तिकं नयामः।
सूत्रधारः-यदमी दमयन्ती-गन्धार-पिङ्गलकनेपथ्यधारिणो रङ्गोपजीविनः संरभन्ते, तज्जाने प्रवृत्तं नाटयम् । तदहमपि कार्यान्तरमनुतिष्ठामि ।
( अञ्जलिं बद्ध्वा ) जयति स पुरुषविशेषो नमोऽस्तु तस्मै त्रिधा त्रिसन्ध्यमपि । स्वप्नेऽपि येन दृष्टं नेष्टवियोगोद्भवं दुःखम् ॥ ५॥
(इत्यभिधाय निष्क्रान्तः) (ततः प्रविशति दमयन्ती गन्धारः पिङ्गलकश्च ) १. हा आर्यपुत्र ! परित्रायस्व मां, बिभेमि एकाकिनी करालव्या
लविधुरेऽरण्यकुहरे।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org