SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः [ १०१ कितुमाकारितोऽस्मि । तद् बजामि त्वरितम् । अपि नाम नटेभ्यः कापि दमयन्तीप्रवृत्तिरपि लभ्येत । (परिक्रामति । नेपध्यमवलोक्य ) कथम यमिक्ष्वाकुकुलतिलको देवो दधिपर्णः सपणेनाम्नाऽमात्येन सह जल्पन्नास्ते । जीवलकोऽप्यत्रैव तिष्ठति । भवतु प्रणमामि । ( तत: प्रविशति यथानिर्दिष्टो राजा ) राजा-अमात्य ! पश्याकृतिविरुद्धमस्य वाहुकनानो वैदेशिकस्य कलासु कौशलम् । किमेतस्य सर्वाङ्गवक्रस्य तदिदमश्वलक्षणवलक्षण्यम्, सोऽयं सूर्यपाकविधिः, सेयमपरास्वपि क्रियासु चातुरी सम्भवति । सपर्ण:-अस्मिन् नयनोद्वेगाञ्जने कलाकलापमावपत्रसंशयं विरश्चिन्तिः । जीवलक:-देव ! बाहुकः प्रणमति । राजा-बाहुक ! इत आस्यताम् । ( नलः प्रणम्योपविशति) (स्मृत्वा) किमयापि चिरयन्ति रङ्गोपजीविनः ? जीवलक:-भो भरतपुत्राः ! प्रस्तूयतां नाट्यम् । (प्रविश्य ) सूत्रधारः-नलान्वेषणनामप्रवन्धाभिनयावधानाय महाराजं दधिपर्णमभ्यर्थये ।। नल:-~-(स्वगतम् ) कोऽयं नलः ? किमहमेव ? यदि चाऽपारे जगत्पारावारे न दुर्लभो नामसंवादः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy