SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९८] नलविलासे (नेपथ्ये) 'अज्ज ! एवं शिशिलशलिलपूलिदं शलं, ता एहि सत्थवाहस्स गडय कहेमि । राजा-कथं पक्कणवासी कोऽप्यागच्छति (साशङ्कम् ) यदि कथमप्येषा शबरम्यास्य कोलाहलेन निद्रामपजह्यात् तदा मामववध्नीयात् । तद् व्रजाम्यहम् । देवि ! तदानी चरममाभाष्यसे । वनदेवतास्ते शरणम् । एष पापिष्ठश्रेष्ठो निस्त्रिंशशिरोमणिः परवञ्चनाचतुरः क्षत्रियापदेशेन ब्रह्मराक्षसः क्रूरकर्मा चाण्डालचक्रवर्ती नलः प्रयाति । ( इत्यभिधाय पूत्कुर्वन् निष्क्रान्तः) (ततः प्रविशति पुरुषः ) पुरुषः- अज्ज ! एवं शिशिलशलिलपूलिदं शलं ! ता एहि सत्थवाहस्स कहेमि (परिक्रम्य विलोक्य च) कथं इथिका ! अम्मो ! अदिलूविणी ! हीमाणहे कधं अल्लणे एगा१. आर्य ! एतत् शिशिरसलिलपूरितं सरः, तदेहि सार्थवाहाय गत्वा कथयामि । २. आर्य ! एतत् शिशिरसलिलपूरितं सरः, तदेहि सार्थवाहाय कथयामि । कयं त्री: ! अहो ! अतिरूपवती, हा ! कथमरण्ये एकाकिनी ? मैनां कोऽपि बुभुक्षाकरालो राक्षसो भक्षको वा खादयेत् (?) । तदुत्थापयाम्यहम् । आर्ये ! आर्ये ! उत्तिष्ठ उत्तिष्ठ । कथमतिनिद्रया मृतेव न शृणोति शब्दम् ? भवतु, उत्पादयतामन्यत्र नयामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy