SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः [९७ स्पृशति न मणिज्योत्स्नाच्छन्नं निशान्तजुषः पुरा सुचिरमनिलोऽप्यङ्ग यस्या नलादिव शङ्कितः । विगतशरणा झुत्क्षामाङ्गी पटचरधारिणी वनभुवि हहा ! सेयं शेते विदर्भपतिप्रसूः ॥१८॥ हे देवि ! एष कर्मचण्डालो नलः प्रयाति । (कतिचित् पदानि दत्त्वा सरोषमात्मानं प्रति ) आः क्षत्रियापसद ! पुरुषसारमेय ! भन जाल्म ! श्वपाकनायक ! कृपाश्किल ! हतनल ! कथमिमामेकाकिनीमात्मैकशरणां सधमचारिणीमस्मिन् गहने वने सन्त्यज्य प्रचलितोऽसि ? भवतु, वनदेवताः शरणं कृत्वा वजामि । (प्रतिनिवृत्य दिशोऽवलोक्य ) कञ्चित् काननदेवताः ! शृणुत मे यस्या वपुः कल्पयन् जातः शिल्पिगणाग्रणोः कमलभूः सेयं विदर्भात्मजा । अस्याः कर्कशकर्मणा प्रियतमाभासेन निष्कारणं त्यतायाः शरणं स्थ मा स्म नलवन्निस्त्रिंशतां गच्छत ॥१६॥ (पुनरञ्जलिं बद्धवा ) निद्राच्छेदे व दयित ! गतोऽसीति तारं वदन्ती विन्यस्यन्ती दिशि दिशि दृशं बाष्पकल्लोललोलाम् । देव्यः ! सर्वा वनवसतयो मातरः ! प्रार्थये व स्तत कर्तव्यं कलयति तथा कुण्डिनाध्वानमेषा ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy