SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः [९३ राजा-(स्वगतम् ) इदमप्यस्य वचनं तथ्यं पथ्यं च । तदानीं स्वयंवरे तथा चमूचक्रेण गत्वा पुनरिदानों दमयन्तीमात्रपरिच्छदः कुण्डिनं प्रविशंस्तत्रत्यपौरजनानामपि हास्यपात्रं भविष्यामि । तदियमेव का देवी ज्ञातविदर्भपथाभिज्ञाना कुण्डिनमुपसर्पतु । (प्रकाशम् ) भगवन् । सौहृदसदृशमनुशिष्टवानसि । तापस:-( सहर्षमात्मगतम् ) अनुष्ठितस्तावदेको गुरोगदेशः । परमितो द्वितीयमनुतिष्ठामि । ( ऊधमवलोक्य प्रकाशं सभयम् ) कथं ललाटन्तपस्तपनः १ अतो वर्तते सन्ध्याविधिः । महाभाग ! अनुजानीहि मां मध्याह्नसन्ध्यासेवनाय । अयं चोत्तरेण पर्वतमकुटिलः कुण्डिनस्य पन्थाः (इत्यभिधाय निष्क्रान्तः) राजा---(अस्मात् सरसः कमलदलपुटकैः सलिलमाहरामि, स्वयं च पियामि ( सखेदम् ) धिग् मां व्यसनोपपातविस्मृतौचित्याचरणम् । अनुपशान्तपिपासायां देव्यां कथमहं पयस्यामि ! भवतु, जलमादाय तत्र गच्छामि । (नथा कृत्वा परिक्रम्य) कथमियं मयाऽपहातव्या। आः ! ज्ञातम्, निद्रायितां सन्त्यज्य व्रजामि । (विलोक्य) इयं देवी, देवि ! इदं चारि उपस्पृशतु देवी । (दमयन्ती उपस्पृशति) देवि ! अयं ते विदर्भषु वजन्त्याः (पुनः सशङ्कम् ) अयं विदर्भेषु गच्छतामध्वनीनामकुटिलः पन्थाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy