SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नलविलासे राजा - ( सव्रीडम् ) मुने ! भूपतिचरोऽस्मि | तापसः - ( सादरमिव ) तर्हि सुतरामतिथयः स्थ । तदावेदय किमातिथेयमनुतिष्ठामि ? २] राजा—बहुद्दश्वानस्तपस्विनस्तत् कथयत विदर्भपथाभिज्ञानानि । एतदेव नः साम्प्रतमातिथेयम् । तापसः - किं तत्र वः । राजा -वशुरकुलं तत्र नः । तापसः -- तत्र वः सधर्मचारिणी ? राजा - अत्र नः सधर्मचारिणी । < तापसः - ( सविचिकित्समिव ) स्त्रीसङ्गनिगडितो भवान् नाहः कामचारस्य । अपि च राज्यभ्रंशः स्त्रीसङ्गश्चेति महती व्यसनपरम्परा । राजा - (स्वगतम् ) सत्यमाह तापसः । भुजमात्रपरिच्छदेर्यत्रैव तत्रैव यथैव तथैव स्वैरमास्यते । स्त्रीबद्धानां कुतः कामचारः १ तापसः - अनुचितं गृहस्थकृत्य चिन्तनं तपस्विनः । तथापि साप्तपदीनसौहार्दोपहृतहृदयो महाभागं किमप्यनुशास्मि । राजा - अनुगृह्णातु महात्मा । तापसः - भ्रष्टराज्यस्य भवतः श्वशुरकुलगमनमपत्रपाकारि प्रतिभाति । त्वमप्यधिमनसमालोचय पावहं मे यद्ययमर्थः समर्थः प्रदर्शयितुमौचितीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy