SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः [६१ ( परिक्रम्य सखेदाश्चर्यम् ) क तद् भ्र विक्षेपक्षिपितनृपतिक्ष्मापतिपदं व चावस्था सेयं मृगमिथुनलीलायितवती ! न यो वाचः पात्रं भवति न दृशोर्नापि मनस स्तमप्यर्थ पंसा हतविधिरकाण्डे घटयति ॥११॥ भवतु, विलोकयामि क्वचिदपि पयः । (विलोक्य ससम्भ्रमम् ) कथं तापसाश्रम इव ! (सम्यगवलोक्य) कथं तापसः सदृशस्तस्य लम्बोदरनाम्नः कापालिनः। यदि वा नासौ सः । अयं खलु कुब्जः खञ्जश्च । (ततः प्रविशति तापसः) तापसा-निविण्णोऽस्मि मार्गविलोकनेन । परमद्यापि न स दुरात्मा समायाति । अवश्यानुष्ठेयश्च गुरोरादेशः । तदितः सरःसेतो स्थित्वा प्रतिपालयामि । (साशङ्कम् ) ध्रुवमसौ मामुपलक्षयेत् । भवतु, वेषान्तरेण सञ्चरे । (विलोक्य) कथं प्राप्तः पापीयानथ सा दुर्विनीता क १ । भवतु पुरो ज्ञास्यामि । (अभिमुखमुपसृत्य) स्वागतमतिथये । राजा-नमो मुनये। तापसः-भद्राणि पश्य । (अपवार्य विपरीतलक्षणया) महाभाग ! वपुलक्षणविसंवादिनी ते दशा । तत् कथय कोऽसि १ कथं दुःस्थावस्थः ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy