________________
९०]
नलविलासे
दमयन्ती-- 'अज्जउत्त ! सुहावत्थाणमेदे कोहलकारिणो, दुहावत्थाणं उण विसेसदो संतावकारिणो।
राजा-सत्यमाह देवी। सुस्थे हृदि सुधासिक्तं दुःस्थे विषमयं जगत् । वस्तु रम्यमरम्यं वा मनःसङ्कल्पतस्ततः ॥ १० ॥ दमयन्ती- अज्जउत्त! परिस्समेण तिसिदम्हि ।
राजा-देवि ! उदन्या त्वां बाधते । कोऽत्र भोः ? अये ! सुरभिशीतलजलकरकमुपनयत (अवलोक्य ) कथं न कोऽप्यग्रतः पावतोऽपि न कश्चित् !
दमयन्ती-(सास्रम् ) अज्जउत्त ! किं नेदं।
राजा-(सलज्जम् ) देवि ! पूर्वसंस्कारो मां विप्लवयति ।
(दमयन्ती मन्दं मन्दं रोदिति) देवि ! अहमिदानी ते पतिश्च पदातिश्च । तद् यावत् कुतोऽपि शीतमम्भः समानयामि तावत् तिलकतरुतले तिष्ठ । ( दमयन्ती तथा करोति) १. आर्यपुत्र ! सुखावस्थानामेते कौतूहल कारिणः दुःखावस्थानां
पुनविशेषतः सन्तापकारिणः । २. आर्यपुत्र ! परिश्रमेण तृषिताऽस्मि । ३. आर्यपुत्र ! किं न्वेतत् !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org