SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [८९ पंचमोऽङ्कः अपि च देवि ! मा स्म विषीद सर्वमपि शुभोदक भविष्यति । अस्तमयति पुनरुदयति पुनरस्तमुपैति पुनरुदेत्यर्कः। विपदोऽपि सम्पदोऽपि च सततं न स्थास्नवः प्रायः ॥८॥ दमयन्ती-(परिक्रम्य सखेदम् ) 'अज्जउत्त ! परिस्संतम्हि ता खणं वीसमिस्सं । (राजा सबाष्पं स्वेदाम्भः प्रमृज्य सिचयाञ्चलेन वीजयति) (निःश्वस्य) अज्जउत्त ! कित्तियं अज्ज गंतव्वं ? राजा-यावद् देवि ! समाक्रमितुमलम् । (दमयन्ती सखेदमुत्थाय परिक्रामति) (स्वगतम् ) विनोदयाम्यस्याश्चेतः कान्ताररामणीयकोपवर्णनेन येनेयं चरणचक्रमणखेदं न वेदयति । (प्रकाशम्) देवि! पश्य पश्यएते निर्झरझात्कृतैस्तुमुलितप्रस्थोदराः क्ष्माधराः किञ्चैते फलपुष्पपल्लवभरै यस्तातपाः पादपाः । चक्रोऽप्येष वधूमुखार्द्धदलितैवृत्ति विधत्ते विसैः * कान्तां मन्द्ररुतस्तथैष परितः पारापतो नृत्यति ॥६॥ १. आर्यपुत्र ! परिश्रान्तास्मि ततः क्षणं विश्रमिष्यामि । २. आर्यपुत्र ! कियदद्य गन्तव्यम् ? * कान्तामन्तरुत० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy