Book Title: Yogshatak Sampadanam
Author(s): Punyavijay
Publisher: Punyavijayji
Catalog link: https://jainqq.org/explore/211798/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ योगशतक-सम्पादनम् ला. द. भारतीयसंस्कृतिविद्यामन्दिरग्रन्थमालायाश्चतुर्थग्रन्थाङ्करूपेण याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिप्रणीतं स्वोपशटीकासहित ‘योगशतकप्रकरणम्' तथा खण्डितापूर्णरूपेण लब्धत्वाद् अशातग्रन्थ-ग्रन्थकाराभिधानो ग्रन्थविषयविभागावलोकनेन श्रीहरिभद्रसूरिप्रणीत: 'ब्रह्मसिद्धान्तसमुच्चयः' इति अस्माभिः परिकल्पिताभिधानो ग्रन्थश्चेति प्रकरणयुगल प्रकाश्यते । तत्र योगशतक मूलमात्रं डॉ० झवेरी इन्दुकलाभगिन्या पाण्डित्यपूर्णगूर्जरगिरानुवादेन विस्तृतप्रस्तावनया च सह सम्पाद्य प्रसिद्धि प्रापितम् । साम्प्रतं तदेव अद्यावध्यज्ञातया स्वोपाटीकया समलकतं प्रसिद्धि नीयते । अस्य किलैकैव ताडपत्रोपरि लिखिताऽतिप्राचीना शुद्धप्राया प्रतिः कच्छदेशान्तर्गतमांडवीनगरस्थखरतरगच्छीयजैनशानभाण्डागारे सुरक्षिताऽऽसीत् ।साच प्रतिस्तद्भाण्डागाररक्षक-मांडवीजैनश्रीसङ्घमान्यमहानुभावश्रेष्ठिवर्यश्रीमोहनलाल पोपटभाई शाहद्वारा समासादिता । अस्याः प्रतेः षट्त्रिंशत्पत्राणि । प्रतिपत्रं ताडपत्रपृथुलत्वानुसारेण कस्मिश्चित्पत्रे चतस्रः यावत् कस्मिंश्चित्पत्रे सप्तापि पङ्क्तयो वर्तन्ते । प्रतिपङ्ति क्वचित्षष्टिः सप्ततिः यावत् क्वचिदशीत्यक्षराण्यपि लिखितानि दृश्यन्ते । प्रतिरियं मध्ये छिद्रयुता विभागद्वयेन च लिखिता वर्तते। आयाम-पृथुलत्वे किलास्याः प्रतेः १३।४२। इंचप्रमितमस्ति । प्रतिरिय केनापि विदुषा मुनिप्रवरादिना साद्यन्तं वाचिता संशोधिता चेति शुद्धप्राया क्वचित्क्वचिच्च टिप्पणीयुताऽपि वरीवृत्यते । अस्याः प्रतेः प्रान्तभागे "संवत् ११६५ फाल्गुन सुदि ८ लिखितेति" इतिरूपा लेखनसमयावेदिका पुष्पिका वर्तते इति अस्याः प्रतेः लेखनकालः ११६५ वर्षरूपः स्पष्टमेव ज्ञायते । शुद्धप्रायाया अस्या एकस्या एव प्राचीनतालपत्रीयप्रतेराधारेणास्य स्वोपाटीकाविभूषितस्य योगशतकप्रकरणस्य सम्पादनं संशोधनं च विहितमस्ति । यद्यपि प्रतिरिय सामान्यभावेन शुद्धरूपा यतते तथाप्यनेकानेकेषु स्थलेष्वशुद्धयो वर्त्तन्त एव इत्यतस्तत्र तत्र स्थलेषु तत्तद्विषयकग्रन्थाद्याधारेणास्य ग्रन्थस्य सुचारुसंशोधनकृते प्रयतितमस्ति । * श्रीहरिभद्रसूरिविरचितं योगशतकं स्वोपज्ञवृत्त्या सहितम्, ब्रह्मसिद्धान्तसमुच्चयश्च (प्रकाशक ला. द. भारतीय संस्कृति विद्यामन्दिर, अमदावाद, ई. स. १६६५) इत्येतस्य सम्पादनस्य प्रस्तावना। Page #2 -------------------------------------------------------------------------- ________________ १२८] જ્ઞાનાંજલિ ग्रन्थस्यास्य पाण्डित्यपरिपूर्णा प्रतिकृतिः (प्रेस कॉपी) भोजक कुलमण्डनस्य गृहस्थभावेऽपि प्राप्तात्मरमणताधर्मस्य धर्मात्मनो गिरधरलालस्य पौत्रेण तथा आत्मरमणतानिष्ठस्य धर्मभावनावासितान्तःकरणस्य मोहनलालस्य नन्दनेन अमृतलाल पण्डितेनातिसावधानतया विहितेत्यस्य ग्रन्थस्य सम्पादने संशोधने चातिसौकर्यं सञ्जातम् । द्वितीयः किल खण्डितापूर्णलब्धत्वाद् अस्मत्कल्पिताभिधानो ब्रह्मसिद्धान्तसमुच्चयनामा ग्रन्थोऽस्मिन्ग्रन्थाङ्गके प्रकाश्यते । अयं किल ग्रन्थोऽणहि पुरपत्तनीयशतशः खण्डीभूततालपत्रीयग्रन्थराशिमध्यात् शीर्णविशीर्णतालपत्रखण्डरूपेण मयव समुपलब्धा मम पार्श्व एव वर्तते । इयं हि प्रतिः प्रतिपत्रं सञ्जातद्वित्रखण्डा द्वात्रिंशत्पत्रात्मिका पूर्णा ४२३ लोकपर्यन्तमासादिताऽस्ति । प्रतिपत्रं चतस्रः पञ्च वा पङ्क्तयो वर्त्तन्ते । प्रतिपङ्कि पञ्चचत्वारिंशद् यावदष्टचत्वारिंशदक्षराणि लिखितानि निरीक्ष्यन्ते । प्रतिरियं प्रायः शुद्धैव वर्त्तते तथापि क्वचित्क्वचिदशुद्धयोऽपि दृश्यन्ते । अस्याः प्रतेरन्तिमं पत्रं नोपलब्धमिति निश्चिततया न ज्ञायते कस्मिन्समये लिखितोऽयं ग्रन्थः ? इति, तथापि लिपितालपत्रीयजातिलेखनपद्धत्याद्यवलोकनेन इयं प्रतिः द्वादश्यां शताब्द्यां लिखितेत्यनुमीयते । प्रतिरियमायाम- पृथुलत्वे ११॥ × १ ॥ इंचप्रमाणा वर्त्तते । अस्याः प्रतेः द्वादशं पत्रं सर्वथैव नोपलब्धम् । तथा ७ तः १०, २२, २४, २६, २९तः ३२ पत्राणामुत्तरविभागो नष्ट इति नोपलब्धः । अस्याः शीर्णविशीर्णखण्डखण्डीभूतापूर्ण प्रतेराधारेणास्य ब्रह्मसिद्धान्त समुच्चयग्रन्थस्य सम्पादनं संशोधनं च विहितमस्ति । अस्यापि ग्रन्थस्य वैदुष्यपूर्णा प्रतिकृतिः (प्रेस कॉपी) 'पण्डितश्री अमृतलालेनैवातिसावधानतया महता श्रमेण निर्मिताऽस्ति, येनास्यापि सम्पादने संशोधने च समधिकं सौकर्यमजनि । किञ्च - अस्य ग्रन्थयुगलस्य संशोधनं केवलं मयव विहितमिति नास्ति । किन्तु पण्डितश्रीसुखलालजित्-ला. द. भा. सं. विद्यामन्दिर मुख्य नियामकदलसुखमालवणिया-पण्डित अमृतलाल - मुनिप्रवर श्री जम्बूविजयजी - प्रशांशमुनिवरश्रीकान्तिविजयप्रभृतिभिः स्थानस्थानेषु संशोधन संसूचनं च विहितमस्ति । अपि च पण्डितश्री अमृतलालेन तु प्रतिकृतिविधानादारभ्य प्रुफपत्राद्यवलोकन - परिशिष्टविधानादिसमग्रकार्येषु दत्तचित्ततया साहाय्यं विहितमस्तीति समवधारयन्तु विद्वांसः । ग्रन्थयुगलमप्येतद् योगविषयकं वर्तत इति तन्मार्गसिसाधयिषवो जिज्ञासवो वा मुनिव विद्वांसश्चावश्यमेवाऽऽसादयिष्यन्ति स्वेप्सितमेतद्ग्रन्थयुगलावगाहनेन । ग्रन्थकारः स्वोपज्ञटीकासमलङ्कृतस्यास्य योगशतकाख्यप्रकरणस्य प्रणेता याकिनीमहत्तरासूनुराचार्यश्रीहरिभद्रसूरिरेवेति तत्पुष्पिकाद्यवलोकनेन स्पष्टमेव ज्ञायते । प्रस्तुतग्रन्थकर्तुराचार्यस्य सत्ता समय-निवासस्थान - जीवन - पाण्डित्य - ग्रन्थनिर्माणादिविषये डॉ. याकोबी- पण्डितसुखलालजी - श्रीजिनविजयजी - प्रशांशश्रीकल्याणविजयजी - डॉ. झवेरी इन्दुकलाभगिनीप्रभृतिभिरनेकैर्विद्वत्प्रवरैः सुबहु विचारितमुल्लिखितमपि चास्तीति नात्रार्थे कश्चित्प्रयासो विधीयते । केवलं श्रीहरिभद्रसूरिपादविरचितनवीनग्रन्थनामोल्लेखादिविषये किञ्चित्प्रयत्यते । तत्र ताव Page #3 -------------------------------------------------------------------------- ________________ યોગશતક-સમ્પાદનમ [१२१ प्रकाश्यमानैषा योगशतकप्रकरणस्य स्वोपज्ञटीका कच्छदेशीयमांडवीनगरस्थितखरतरगच्छीयजैनज्ञानकोशात् साम्प्रतमेव प्राप्ताऽस्ति । न खल्वियं ग्रन्थरचनाऽद्य यावद् ज्ञातचराऽऽसीदिति । तथाऽस्यां स्वोपाटीकायां " निर्लोठितं चैतदुपदेशमालादिग्विति नेह प्रयत्नः" (पृ. २४) इत्युल्लेखदर्शनात् साम्प्रतं कुत्राप्यदृश्यमानः श्रीमद्भिर्विरचित उपदेशमालाख्यो ग्रन्थ आसीदिति निश्चीयते । एवमेव श्रीमद्भिर्मलयगिर्याचार्यपादैः श्रीजिनभद्रगणिक्षमाश्रमणचरणनिर्मितसङ्ग्रहणीप्रकरणवृत्ती श्रीहरिभद्रसूरिपुरन्दरविहितायास्तवृत्तेः स्थानस्थानेषु उल्लेखः कृतोऽस्तीत्यतस्तत्संसूत्रिता सङ्ग्रहणीप्रकरणवृत्तिरप्यासीदिति । उपलभ्यते हीयं जेसलमेरुभाण्डागार-मत्सङ्ग्रहीतज्ञानकोशादिप्विति। अपरं च श्रीमद्भिर्याकिनीमहत्तरासूनुभिः स्वकीयाऽऽवश्यकशिष्यहिताख्यलघुवृत्तिप्रारम्भे “ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि सङ्क्षेपात् । तदुचितसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ।" इत्युल्लेखदर्शनाद्विदुषाम् तद् ज्ञातचरमेव यत्-श्रीमद्भिः पूर्व आवश्यकसूत्रोपरि बृहद्वृत्तिविरचिता, तदनन्तरं शिष्यहिताख्या लघुवृत्तिरिति । तथा मलवारिश्रीहेमचन्द्रसूरिपादसंसूत्रितशिप्यहितावृत्तिटिप्पनकान्तर्वत्तिनः “ यद्यपि मया वृत्तिः कृता" इत्येवंवादिनि च वृत्तिकारे "चतुरशीतिसहनप्रमाणाऽनेन वाऽऽवश्यकवृत्तिरपरा कृताऽऽसीदिति प्रवादः" इत्युल्लेखदर्शनाच्च सा बृद्दद्ध. त्तिश्चतुरशीतिसहस्रश्लोकप्रमाणाऽऽसीदित्यपि विदितचरमेव प्रज्ञावतां प्राज्ञानामिति । तथापि 'तत्र बृहद्वत्तौ तैः सूरिश के के पदार्थाः कथं व्यावणिताचचिता वाऽऽसन् ? ' इत्यावे. दकोऽतिगाम्भीर्य पूर्ण एक उल्लेखस्तैः स्वविरचितनन्दिसूत्रलघुवृत्तौ " साङ्केतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके नयाधिकारे विचारयिष्यामः” (पृ.६८) इतिरूपो निष्टङ्कितोऽस्ति । एतदेकोलेखमात्रदर्शनादेतज्ज्ञायते यत्--श्रीमद्धिस्तत्र बृहवृत्तौ दार्शनिकजगदाश्चर्यकारका एतादृशः संख्यातीताः पदार्था वादिमताश्च व्यावणिताश्चर्चिता निरस्ताश्चापि भविष्यन्तीति । दुर्दैवमेतदास्माकीनं यत्सा चिरकालादेव दुःषमाकालेन कवलितेति । ब्रह्मसिद्धान्तसमुच्चयकार: मत्परिकल्पितनाम्नः प्रस्तुतस्य ब्रह्मसिद्धान्तसमुच्चयाख्यस्यास्थ प्रकरणस्यान्तिम पत्रं तावन्नोपलब्धमिति तत्प्रणेतृतन्नामादिविषयकं किमपि प्रमाण साक्षान्नास्तीति प्रागेवाऽऽवेदितम् । तत्र खण्डितापूर्णलब्धस्यास्य प्रकरणस्य 'ब्रह्मसिद्धान्तसमुच्चयः' इति नाम ग्रन्थाद्यश्लोकोक्तविषयानुसारेण मत्परिकल्पितमेव । निर्माता पुनरस्य प्रकरणस्यैतद्ग्रन्थगतविषयादिविचारणेन याकिनीमहत्तरास नुराचार्यश्रीहरिभद्रपाद आभाति । तथाहि-तत्र तावद् यथाऽन्येषु श्रीहरिभद्राचार्यविनिर्मितेषु योगदृष्टिसमुच्चयप्रभृतिग्रन्थेषु श्रीमहावीरजिननमस्कारः प्रतिपाद्यविषयोल्लेखश्च दृश्यते तथाऽत्रापि ग्रन्थ इति । तथा योगदृष्टिसमुच्चय-योगबिन्दु-अएकप्रकरण-विंशतिविशिकादिप्रकरणेषु यादृशी विषयविभागविचारणपरिपाटी यादशश्च पारिभाषिकशब्दप्रयोगो वरीवृत्यते तथैवात्रापि ग्रन्थे तादृश्येव विषयविचारणपरिपाटी तादृश एव च पारिभाषिक शब्दादिप्रयोगो दृष्टिपथमवतरति । तथा ललितविस्तरावृत्त्यादिवदत्रापि प्रकरणे 'आगमेनानुमानेन०' इति श्लोकोऽपि वर्तते । एवमेव योगबिन्दुप्रकरणे दानं भृत्याविरोधेन' इत्यत्र यथा ' भृत्याविरोध' वाक्यप्रयोगो वर्तते तथाऽत्रापि प्रकरणे 'भृत्यानासुपरोधेन' (श्लो० १९०) 'भृत्यानामुपरोधश्च' (श्लो० २००) इत्यत्र दृश्यते । तथैव षोडशकप्रकरणे 'अद्वेषो जिज्ञासा' इत्यादिपये यथाऽष्टाङ्गानां निरूपर्ण al. १७ Page #4 -------------------------------------------------------------------------- ________________ 190 જ્ઞાનાંજલિ तथाऽत्रापि 'अद्वेषश्चैव जिज्ञासा' (श्लो० 35 ) इति पद्ये निरीक्ष्यते / ललितविस्तरावृत्ति -योगदृष्टिसमुच्चयादिषु यथा इच्छायोगादीनां स्वरूपं वर्तते तथैवाऽत्रापि प्रकरणे 18991 पद्येषु निरूप्यते / तथा योगदृष्टिसमुच्चये यथाऽवेद्यसंवेद्यपदवर्त्यपि मित्राद्याद्यचतुर्दृष्टिगतविशिष्टगुणान्वितो व्यावर्णितोऽस्ति तथाऽत्रापि मिथ्याटिरपि युक्तः स च तादृक्क्रियान्वितः' इति 54 पद्ये व्यावणितोऽस्ति / एतानि पुनर्विशिष्टस्थानानि यान्यस्य प्रकरणस्य श्रीहरिभद्राचार्यकृतत्वमावेदयन्ति-- 1. अत्राधिकारिणोऽप्युक्ता अपुनर्वन्धकादयः / त्रय-एव० श्लो० 37 / अहिगारी पुण ___एत्थं विण्गेओ अपुणबंधगाइत्ति / -योगश० गा० 9. 2. न जानाति तामन्यो नष्टनाशनः-श्लो० 136 / ___ गुरुणो अजोगिजोगो० जोगिगुणहीलणाणढणासणा० -योगश० गा० 37. 3. देवताबहुमानेन-श्लो० 163 / गुरु-देवयाहि जायइ--योगश० गा० 62. 4. शिवज्ञानं य आसाद्य--इत्यादि 263-65 शिवागमश्लोकाः एतीए एस जुत्तो सम्म असुहस्स खवग मोणेओ / -योगश० गा० 85. 5. कायपातादिभावेऽपि शुभालम्बनयोगतः / -श्लो० 171 / तह कायपाइणो ण पुण चित्तमहिकिञ्च बोहिसत्त त्ति। -योगश०-गा० 88. 6. आश्चर्यमावतस्त्वाशु कश्चित् तेनैव जन्मना / -श्लो० 413 / ___ जइ तब्भवेण जायइ जोगसमत्ती। योगश० गा० 92. 7. श्लो० ३९२तः 94 मृत्युज्ञानचिह्नानि / णाणं चागम-देवय-पइहा--सुमिणंधरादऽदिट्टीओ / -योगश० गा० 97. सोपेगैतेषामुपयुल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्री. हरिभद्राचार्यसंसूत्रितमेवाऽऽभाति / अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति / किञ्च यदि श्रीहरिभद्रसूरिपादप्रणोतयोगविन्दु-योगदृष्टिसमुच्चय-अटकप्रकरण-षोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरनित्यत्र न कश्चिसन्देहलेश इति / प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण / ___ अत्रैतत्किल ज्ञापनीयमस्ति यदिदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्रं 423 पयं यावच खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवत्ति एवं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति / अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्-श्रीमद्भिहरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्यप्येताशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति / अतस्तावदिदं निवेद्यते -येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलाल महानुभावेन स्वोपज्ञटोकायुता योगशतकप्रकरणप्रतिरतिचिर Page #5 -------------------------------------------------------------------------- ________________ ગશતક-સંપાદનમ [ 131 कालं यावदस्मभ्यमौदार्यभावेन समर्पिता, यैश्च विद्वत्प्रवरैरेतद्ग्रन्थयुगलस्य संशोधने भिन्नभिन्नरूपेण महामूल्यं साहाय्यं वितीर्ण तेभ्यः सर्वेभ्योऽपि साभारं धन्यवाददानं न विस्मरति मम हृदयम् / निवेदक:बृहद्गुरुप्रवर्तककान्तिविजयशिष्याणुगुरुप्रवरश्रीचतुरविजयचरणोपासकः मुनिः पुण्यविजयः / ['श्रीहरिभद्रसूरिविरचितं योगशतकं स्वोपज्ञवृत्त्या सहितम्, ब्रह्मसिद्धान्तसमुच्चयश्च' इत्येतस्य सम्पादनस्य प्रस्तावना, अमदावाद, 1965] प्रबुद्धरौहिणेय-सम्पादनम् - अस्य प्रवुद्धरोहिणेयाभिधनाटकस्य कर्तारः श्रीमद्वादिदेवसूरिशिष्यश्रीजयप्रभसूरिशिष्याः श्रीमन्तो रामभद्रमुनिवरा इति प्रस्तावनान्तर्गतेन“वादीन्द्रस्मयसंचयव्ययत्रणः श्रीदेवसूरिः प्रभु स्तद्गच्छाम्बुधिपार्वणोऽमृतरुचिः सैद्धान्तिकग्रामणीः / श्रीमत्सूरिजयप्रभः शनिधिस्त्रैविद्यवृन्दारक स्तच्छिायोऽस्ति समस्तनिस्तुपगुणारामः स रामः कविः // सत्यं सन्त्येव शीतांशुसंगीतवनितादयः / धुर्य किमपि माधुर्य रामभद्र गिरी पुनः // ततस्तद्विरचितं सकर्णश्रव्यनव्योक्तिसूक्तिमुक्ताञ्चितं विविधस्निग्धरसवैदग्ध्यनिधान प्रबुद्धरौहिणेयाभिधान प्रकरणमभिनेष्यामः / " इत्यनेन पाठेन प्रकटमेव प्रतीयते / सत्तासमयश्चैतेषां विक्रमीयस्त्रयोदशशताब्दीय एव, श्रीमद्वादिदेवसूरिप्रशिष्यत्वात् श्रीमत्पार्धचन्द्रपुत्र-श्रीमद्यशोवीर-श्रीअजयपालकारितश्रीयुगादिदेवप्रासादान्तरस्य नाटकस्य सामाजिकैरभिनयसमादेशनाच / ___ * श्रीरामभद्र मुनिविरचितं प्रबुद्धरौहिणेयम् (प्रकाशक-श्री जैन आत्मानन्द सभा, भावनगर, ई. स. 1618) इत्येय सम्पादकीयनिवेदनम् / Page #6 -------------------------------------------------------------------------- ________________ જ્ઞાનાંજલિ 132] श्रीमतां वादिदेवसूरीणां प्रभावकचरित्रान्तर्गतेन "श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते / जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः // रसयुग्मरवौ वर्षे 1226 श्रावणे मासि संगते / कृष्णपक्षस्य सप्तम्यामपराहणे गुरोदिने // मर्त्यलोकस्थितं लोकं प्रतिवोध्य पुरन्दरम् / बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः // त्रिभिविशेषकम् // " अनेन पद्यत्रितयेन 1226 वर्षे दिवंगतत्वं प्रकटमेव / एतेषामेव च सूरिवराणां प्रशिष्यत्वादेतद्ग्रन्थकर्तुत्रयोदशशताब्दयन्तभांवित्वं स्पष्टमेव / / श्रीमद्यशोवीरसत्तासमयोऽपि त्रयोदशशताब्दीय एवेति प्राचीनजैनलेखसंग्रहद्वितीयभागान्तर्गतश्रीजालोरदुर्गलेखकात्स्पष्टमेवावबुध्यते / स चायम् ॐ // संवत् 1221 श्रीजाबालिपुरीयकाञ्चनगिरिगढस्योपरि प्रभुश्रीहेमसूरिप्रबोधितश्रीगूर्जरधराधीश्वरपरमार्हतचौलुक्यमहाराजाधिराजश्रीकुमारपालदेवकारिते श्रीपार्श्वनाथसस्कमूलविम्वसहितश्रीकुवरविहाराभिधाने जैनचैत्ये / सद्विधिप्रवर्तनाय बृहद्गच्छीयवादीन्द्र. श्रीदेवाचार्याणां पक्षे आचन्द्रार्क समर्पिते // सं. 1242 वर्षे एतद्देशाधिपचाहमान कुलतिलकमहाराजश्रीसमरसिंहदेवादेशेन भां० पासूपुत्र-भां० यशोवीरेण समुद्धते श्रीमद्राजकुलादेशेन श्रीदेवाचार्यशिष्यैः श्रीपूर्णदेवाचार्यः / सं. 1256 वर्षे ज्येष्ठ सु० 11 श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते / मूलशिखरे च कनकमयध्वजादण्डस्य ध्वजारोपणप्रतिष्ठायां कृतायां / सं. 1268 वर्षे दीपोत्सवदिने अभिनवनिष्पन्नप्रेक्षामध्यमंडपे श्रीपूर्णदेवसूरिशिष्यैः श्रीरामचन्द्राचार्यैः सुवर्णमयकलशारोपणप्रतिष्ठा कृता // शुभं भवतु // छ / " ____ संशोधनसमयेऽस्य नाटकस्यैकमेव पुस्तकं पत्तनस्थवाडीपार्श्वनाथसत्कपुस्तकभाण्डागारात्सुश्रावक-वाडीलाल-हीराचन्द-दलालद्वाराऽऽसादितम् / तच्चातीवाशुद्धं पुरातनं क्वचित्क्वचित्पतितपाठम् / तदाधारेणैव संशोधितमिदम् / क्वचित्क्वचिदर्थसंगतावसत्यामन्यादर्शान्तरालाभेन तथैव मुद्रितम् / तच्च धोमद्भिः संशोध्य वाचनीयमित्यभ्यर्थयते ___श्रीमच्चतुरविजयचरणोपासका पुण्यविजयः। [ 'प्रबुद्धरौहिणेय' स्य सम्पादकीयनिवेदनम् , भावनगर, ई. स. 1918 ]