________________ ગશતક-સંપાદનમ [ 131 कालं यावदस्मभ्यमौदार्यभावेन समर्पिता, यैश्च विद्वत्प्रवरैरेतद्ग्रन्थयुगलस्य संशोधने भिन्नभिन्नरूपेण महामूल्यं साहाय्यं वितीर्ण तेभ्यः सर्वेभ्योऽपि साभारं धन्यवाददानं न विस्मरति मम हृदयम् / निवेदक:बृहद्गुरुप्रवर्तककान्तिविजयशिष्याणुगुरुप्रवरश्रीचतुरविजयचरणोपासकः मुनिः पुण्यविजयः / ['श्रीहरिभद्रसूरिविरचितं योगशतकं स्वोपज्ञवृत्त्या सहितम्, ब्रह्मसिद्धान्तसमुच्चयश्च' इत्येतस्य सम्पादनस्य प्रस्तावना, अमदावाद, 1965] प्रबुद्धरौहिणेय-सम्पादनम् - अस्य प्रवुद्धरोहिणेयाभिधनाटकस्य कर्तारः श्रीमद्वादिदेवसूरिशिष्यश्रीजयप्रभसूरिशिष्याः श्रीमन्तो रामभद्रमुनिवरा इति प्रस्तावनान्तर्गतेन“वादीन्द्रस्मयसंचयव्ययत्रणः श्रीदेवसूरिः प्रभु स्तद्गच्छाम्बुधिपार्वणोऽमृतरुचिः सैद्धान्तिकग्रामणीः / श्रीमत्सूरिजयप्रभः शनिधिस्त्रैविद्यवृन्दारक स्तच्छिायोऽस्ति समस्तनिस्तुपगुणारामः स रामः कविः // सत्यं सन्त्येव शीतांशुसंगीतवनितादयः / धुर्य किमपि माधुर्य रामभद्र गिरी पुनः // ततस्तद्विरचितं सकर्णश्रव्यनव्योक्तिसूक्तिमुक्ताञ्चितं विविधस्निग्धरसवैदग्ध्यनिधान प्रबुद्धरौहिणेयाभिधान प्रकरणमभिनेष्यामः / " इत्यनेन पाठेन प्रकटमेव प्रतीयते / सत्तासमयश्चैतेषां विक्रमीयस्त्रयोदशशताब्दीय एव, श्रीमद्वादिदेवसूरिप्रशिष्यत्वात् श्रीमत्पार्धचन्द्रपुत्र-श्रीमद्यशोवीर-श्रीअजयपालकारितश्रीयुगादिदेवप्रासादान्तरस्य नाटकस्य सामाजिकैरभिनयसमादेशनाच / ___ * श्रीरामभद्र मुनिविरचितं प्रबुद्धरौहिणेयम् (प्रकाशक-श्री जैन आत्मानन्द सभा, भावनगर, ई. स. 1618) इत्येय सम्पादकीयनिवेदनम् / Jain Education International For Private & Personal Use Only www.jainelibrary.org