________________ જ્ઞાનાંજલિ 132] श्रीमतां वादिदेवसूरीणां प्रभावकचरित्रान्तर्गतेन "श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते / जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः // रसयुग्मरवौ वर्षे 1226 श्रावणे मासि संगते / कृष्णपक्षस्य सप्तम्यामपराहणे गुरोदिने // मर्त्यलोकस्थितं लोकं प्रतिवोध्य पुरन्दरम् / बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः // त्रिभिविशेषकम् // " अनेन पद्यत्रितयेन 1226 वर्षे दिवंगतत्वं प्रकटमेव / एतेषामेव च सूरिवराणां प्रशिष्यत्वादेतद्ग्रन्थकर्तुत्रयोदशशताब्दयन्तभांवित्वं स्पष्टमेव / / श्रीमद्यशोवीरसत्तासमयोऽपि त्रयोदशशताब्दीय एवेति प्राचीनजैनलेखसंग्रहद्वितीयभागान्तर्गतश्रीजालोरदुर्गलेखकात्स्पष्टमेवावबुध्यते / स चायम् ॐ // संवत् 1221 श्रीजाबालिपुरीयकाञ्चनगिरिगढस्योपरि प्रभुश्रीहेमसूरिप्रबोधितश्रीगूर्जरधराधीश्वरपरमार्हतचौलुक्यमहाराजाधिराजश्रीकुमारपालदेवकारिते श्रीपार्श्वनाथसस्कमूलविम्वसहितश्रीकुवरविहाराभिधाने जैनचैत्ये / सद्विधिप्रवर्तनाय बृहद्गच्छीयवादीन्द्र. श्रीदेवाचार्याणां पक्षे आचन्द्रार्क समर्पिते // सं. 1242 वर्षे एतद्देशाधिपचाहमान कुलतिलकमहाराजश्रीसमरसिंहदेवादेशेन भां० पासूपुत्र-भां० यशोवीरेण समुद्धते श्रीमद्राजकुलादेशेन श्रीदेवाचार्यशिष्यैः श्रीपूर्णदेवाचार्यः / सं. 1256 वर्षे ज्येष्ठ सु० 11 श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते / मूलशिखरे च कनकमयध्वजादण्डस्य ध्वजारोपणप्रतिष्ठायां कृतायां / सं. 1268 वर्षे दीपोत्सवदिने अभिनवनिष्पन्नप्रेक्षामध्यमंडपे श्रीपूर्णदेवसूरिशिष्यैः श्रीरामचन्द्राचार्यैः सुवर्णमयकलशारोपणप्रतिष्ठा कृता // शुभं भवतु // छ / " ____ संशोधनसमयेऽस्य नाटकस्यैकमेव पुस्तकं पत्तनस्थवाडीपार्श्वनाथसत्कपुस्तकभाण्डागारात्सुश्रावक-वाडीलाल-हीराचन्द-दलालद्वाराऽऽसादितम् / तच्चातीवाशुद्धं पुरातनं क्वचित्क्वचित्पतितपाठम् / तदाधारेणैव संशोधितमिदम् / क्वचित्क्वचिदर्थसंगतावसत्यामन्यादर्शान्तरालाभेन तथैव मुद्रितम् / तच्च धोमद्भिः संशोध्य वाचनीयमित्यभ्यर्थयते ___श्रीमच्चतुरविजयचरणोपासका पुण्यविजयः। [ 'प्रबुद्धरौहिणेय' स्य सम्पादकीयनिवेदनम् , भावनगर, ई. स. 1918 ] Jain Education International For Private & Personal Use Only www.jainelibrary.org