________________
યોગશતક-સમ્પાદનમ
[१२१ प्रकाश्यमानैषा योगशतकप्रकरणस्य स्वोपज्ञटीका कच्छदेशीयमांडवीनगरस्थितखरतरगच्छीयजैनज्ञानकोशात् साम्प्रतमेव प्राप्ताऽस्ति । न खल्वियं ग्रन्थरचनाऽद्य यावद् ज्ञातचराऽऽसीदिति । तथाऽस्यां स्वोपाटीकायां " निर्लोठितं चैतदुपदेशमालादिग्विति नेह प्रयत्नः" (पृ. २४) इत्युल्लेखदर्शनात् साम्प्रतं कुत्राप्यदृश्यमानः श्रीमद्भिर्विरचित उपदेशमालाख्यो ग्रन्थ आसीदिति निश्चीयते । एवमेव श्रीमद्भिर्मलयगिर्याचार्यपादैः श्रीजिनभद्रगणिक्षमाश्रमणचरणनिर्मितसङ्ग्रहणीप्रकरणवृत्ती श्रीहरिभद्रसूरिपुरन्दरविहितायास्तवृत्तेः स्थानस्थानेषु उल्लेखः कृतोऽस्तीत्यतस्तत्संसूत्रिता सङ्ग्रहणीप्रकरणवृत्तिरप्यासीदिति । उपलभ्यते हीयं जेसलमेरुभाण्डागार-मत्सङ्ग्रहीतज्ञानकोशादिप्विति। अपरं च श्रीमद्भिर्याकिनीमहत्तरासूनुभिः स्वकीयाऽऽवश्यकशिष्यहिताख्यलघुवृत्तिप्रारम्भे “ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि सङ्क्षेपात् । तदुचितसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ।" इत्युल्लेखदर्शनाद्विदुषाम् तद् ज्ञातचरमेव यत्-श्रीमद्भिः पूर्व आवश्यकसूत्रोपरि बृहद्वृत्तिविरचिता, तदनन्तरं शिष्यहिताख्या लघुवृत्तिरिति । तथा मलवारिश्रीहेमचन्द्रसूरिपादसंसूत्रितशिप्यहितावृत्तिटिप्पनकान्तर्वत्तिनः “ यद्यपि मया वृत्तिः कृता" इत्येवंवादिनि च वृत्तिकारे "चतुरशीतिसहनप्रमाणाऽनेन वाऽऽवश्यकवृत्तिरपरा कृताऽऽसीदिति प्रवादः" इत्युल्लेखदर्शनाच्च सा बृद्दद्ध. त्तिश्चतुरशीतिसहस्रश्लोकप्रमाणाऽऽसीदित्यपि विदितचरमेव प्रज्ञावतां प्राज्ञानामिति । तथापि 'तत्र बृहद्वत्तौ तैः सूरिश के के पदार्थाः कथं व्यावणिताचचिता वाऽऽसन् ? ' इत्यावे. दकोऽतिगाम्भीर्य पूर्ण एक उल्लेखस्तैः स्वविरचितनन्दिसूत्रलघुवृत्तौ " साङ्केतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके नयाधिकारे विचारयिष्यामः” (पृ.६८) इतिरूपो निष्टङ्कितोऽस्ति । एतदेकोलेखमात्रदर्शनादेतज्ज्ञायते यत्--श्रीमद्धिस्तत्र बृहवृत्तौ दार्शनिकजगदाश्चर्यकारका एतादृशः संख्यातीताः पदार्था वादिमताश्च व्यावणिताश्चर्चिता निरस्ताश्चापि भविष्यन्तीति । दुर्दैवमेतदास्माकीनं यत्सा चिरकालादेव दुःषमाकालेन कवलितेति ।
ब्रह्मसिद्धान्तसमुच्चयकार: मत्परिकल्पितनाम्नः प्रस्तुतस्य ब्रह्मसिद्धान्तसमुच्चयाख्यस्यास्थ प्रकरणस्यान्तिम पत्रं तावन्नोपलब्धमिति तत्प्रणेतृतन्नामादिविषयकं किमपि प्रमाण साक्षान्नास्तीति प्रागेवाऽऽवेदितम् । तत्र खण्डितापूर्णलब्धस्यास्य प्रकरणस्य 'ब्रह्मसिद्धान्तसमुच्चयः' इति नाम ग्रन्थाद्यश्लोकोक्तविषयानुसारेण मत्परिकल्पितमेव । निर्माता पुनरस्य प्रकरणस्यैतद्ग्रन्थगतविषयादिविचारणेन याकिनीमहत्तरास नुराचार्यश्रीहरिभद्रपाद आभाति । तथाहि-तत्र तावद् यथाऽन्येषु श्रीहरिभद्राचार्यविनिर्मितेषु योगदृष्टिसमुच्चयप्रभृतिग्रन्थेषु श्रीमहावीरजिननमस्कारः प्रतिपाद्यविषयोल्लेखश्च दृश्यते तथाऽत्रापि ग्रन्थ इति । तथा योगदृष्टिसमुच्चय-योगबिन्दु-अएकप्रकरण-विंशतिविशिकादिप्रकरणेषु यादृशी विषयविभागविचारणपरिपाटी यादशश्च पारिभाषिकशब्दप्रयोगो वरीवृत्यते तथैवात्रापि ग्रन्थे तादृश्येव विषयविचारणपरिपाटी तादृश एव च पारिभाषिक शब्दादिप्रयोगो दृष्टिपथमवतरति । तथा ललितविस्तरावृत्त्यादिवदत्रापि प्रकरणे 'आगमेनानुमानेन०' इति श्लोकोऽपि वर्तते । एवमेव योगबिन्दुप्रकरणे दानं भृत्याविरोधेन' इत्यत्र यथा ' भृत्याविरोध' वाक्यप्रयोगो वर्तते तथाऽत्रापि प्रकरणे 'भृत्यानासुपरोधेन' (श्लो० १९०) 'भृत्यानामुपरोधश्च' (श्लो० २००) इत्यत्र दृश्यते । तथैव षोडशकप्रकरणे 'अद्वेषो जिज्ञासा' इत्यादिपये यथाऽष्टाङ्गानां निरूपर्ण
al. १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org