________________
योगशतक-सम्पादनम्
ला. द. भारतीयसंस्कृतिविद्यामन्दिरग्रन्थमालायाश्चतुर्थग्रन्थाङ्करूपेण याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिप्रणीतं स्वोपशटीकासहित ‘योगशतकप्रकरणम्' तथा खण्डितापूर्णरूपेण लब्धत्वाद् अशातग्रन्थ-ग्रन्थकाराभिधानो ग्रन्थविषयविभागावलोकनेन श्रीहरिभद्रसूरिप्रणीत: 'ब्रह्मसिद्धान्तसमुच्चयः' इति अस्माभिः परिकल्पिताभिधानो ग्रन्थश्चेति प्रकरणयुगल प्रकाश्यते ।
तत्र योगशतक मूलमात्रं डॉ० झवेरी इन्दुकलाभगिन्या पाण्डित्यपूर्णगूर्जरगिरानुवादेन विस्तृतप्रस्तावनया च सह सम्पाद्य प्रसिद्धि प्रापितम् । साम्प्रतं तदेव अद्यावध्यज्ञातया स्वोपाटीकया समलकतं प्रसिद्धि नीयते । अस्य किलैकैव ताडपत्रोपरि लिखिताऽतिप्राचीना शुद्धप्राया प्रतिः कच्छदेशान्तर्गतमांडवीनगरस्थखरतरगच्छीयजैनशानभाण्डागारे सुरक्षिताऽऽसीत् ।साच प्रतिस्तद्भाण्डागाररक्षक-मांडवीजैनश्रीसङ्घमान्यमहानुभावश्रेष्ठिवर्यश्रीमोहनलाल पोपटभाई शाहद्वारा समासादिता । अस्याः प्रतेः षट्त्रिंशत्पत्राणि । प्रतिपत्रं ताडपत्रपृथुलत्वानुसारेण कस्मिश्चित्पत्रे चतस्रः यावत् कस्मिंश्चित्पत्रे सप्तापि पङ्क्तयो वर्तन्ते । प्रतिपङ्ति क्वचित्षष्टिः सप्ततिः यावत् क्वचिदशीत्यक्षराण्यपि लिखितानि दृश्यन्ते । प्रतिरियं मध्ये छिद्रयुता विभागद्वयेन च लिखिता वर्तते। आयाम-पृथुलत्वे किलास्याः प्रतेः १३।४२। इंचप्रमितमस्ति । प्रतिरिय केनापि विदुषा मुनिप्रवरादिना साद्यन्तं वाचिता संशोधिता चेति शुद्धप्राया क्वचित्क्वचिच्च टिप्पणीयुताऽपि वरीवृत्यते । अस्याः प्रतेः प्रान्तभागे "संवत् ११६५ फाल्गुन सुदि ८ लिखितेति" इतिरूपा लेखनसमयावेदिका पुष्पिका वर्तते इति अस्याः प्रतेः लेखनकालः ११६५ वर्षरूपः स्पष्टमेव ज्ञायते ।
शुद्धप्रायाया अस्या एकस्या एव प्राचीनतालपत्रीयप्रतेराधारेणास्य स्वोपाटीकाविभूषितस्य योगशतकप्रकरणस्य सम्पादनं संशोधनं च विहितमस्ति । यद्यपि प्रतिरिय सामान्यभावेन शुद्धरूपा यतते तथाप्यनेकानेकेषु स्थलेष्वशुद्धयो वर्त्तन्त एव इत्यतस्तत्र तत्र स्थलेषु तत्तद्विषयकग्रन्थाद्याधारेणास्य ग्रन्थस्य सुचारुसंशोधनकृते प्रयतितमस्ति ।
* श्रीहरिभद्रसूरिविरचितं योगशतकं स्वोपज्ञवृत्त्या सहितम्, ब्रह्मसिद्धान्तसमुच्चयश्च (प्रकाशक ला. द. भारतीय संस्कृति विद्यामन्दिर, अमदावाद, ई. स. १६६५) इत्येतस्य सम्पादनस्य प्रस्तावना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org