Page #1
--------------------------------------------------------------------------
________________
श्रीसिद्धचक्रयन्त्रोद्धारविधि - व्याख्या ॥
श्रीसिद्धचक्रयन्त्र ए जैन धर्मनुं एक विशिष्ट आराध्य यन्त्र छे. पांच परमेष्ठी अने ४ ज्ञानादि गुणो एम नव पदोनां तात्त्विक अने तान्त्रिक संयोजनथी निर्मित आ यन्त्रनी विशिष्ट - विस्तृत उपासनानी प्रक्रिया जैन संघमां आजे पण प्रवर्तमान छे. आ यन्त्रनी उपासनानी ऐतिहासिक विगतो माटे इतिहासवेत्ता पं. श्रीकल्याणविजयजी कृत 'निबन्धनिचय'नो आ विषयनो लेख जोवो जरूरी छे.
सं. विजयशीलचन्द्रसूरि
सिद्धचकनो सीधो सम्बन्ध श्रीपाल - मयणानी कथा साथे जोडायेलो छे. आ बन्ने पात्रोनी कथा, सर्व प्रथम, नागपुरीय बृहत्तपागच्छना श्रीरत्नशेखरसूरिए रचेल 'सिरिसिरिवालकहा ' (१५ मो शतक) मां उपलब्ध थाय छे. ते पूर्वेना श्वेताम्बरसंघना कोई पुरुषे आ बे पात्रो विषे कांई लख्यं होय अथवा आगमोमां ते पात्रोनो कोई उल्लेख होय तेवुं जाणवामां आवतुं नथी. जैनो द्वारा थता नित्यपाठना सूत्ररूप 'भरहेसर' नी सज्झायमां पण आ बेनां नामो गेरहाजर ज छे.
श्रीरत्नशेखरसूरिए 'सिरिसिरिवालकहा ' मां श्रीपाल - मयणानी कथा रसप्रद रूपे गुंथी छे. तेमां ज, प्रसंगोपात्त, सिद्धचक्रयन्त्रनुं स्वरूप पण तेमणे दर्शाव्युं छे. ते वर्णननी मुख्य १२ गाथाओ छे, जेनो अर्थबोध जैन तन्त्रविद्याना जाणकारोने ज थई शके तेवी ते गहन छे. ते अर्थो तथा उपासनाविधिना आम्नायनुं रहस्योद्घाटन, कर्ताना ज शिष्य आचार्य श्रीचन्द्रकीर्तिसूरिए (१६मो शतक) ते गाथाओनी सरल अने सुगम व्याख्या करीने करेल छे.
आ व्याख्या प्रमाणेनी उपासनाविधि साधे वर्तमानमां प्रचलित उपासना (पूजन) पद्धतिने सरखाववामां आवे तो महदंशे साम्य जोवा मळे छे. अथवा बीजी रीते एम कही शकाय के आ व्याख्या द्वारा उपलब्ध थती पद्धतिनो विनियोग प्रवर्तमान पूजनविधियां करी शकाय, अने ते रीते केटलीक प्रवेशेली विकृतिओने दूर करी शकाय.
बे पत्रनी, सम्भवतः १७मा सैकामां लखायेली, निजी संग्रहनी एक प्रतिना आधारे आ सम्पादन करवामां आव्युं छे. आकृतिओ प्रतिलेखके ज आलेखी बतावेल छे. गा. ५नी व्याख्यामां निर्दिष्ट 'लब्धिकल्प'नो सम्बन्ध सूरिमन्त्रकल्प
Page #2
--------------------------------------------------------------------------
________________
24
अनुसन्धान ३६
साथे होवानुं सम्भवित छे.
ॐ नमः सिद्धं ॥
गयणमकलिआयंतं उड्डाहसरं सनायबिंदुकलं । सपण[व]क्रोवबीया-णाहय मंतसरं सरह पीढम्मि ॥१॥
अथ ग्रन्थकारो द्वादशभिर्गाथाभिः श्रीसिद्धचक्रोद्धारविधिमाह ! तत्रेयमादिगाथा-गयणमित्यादि । अत्र गगनादिसंज्ञा मन्त्रशास्त्रेभ्यो ज्ञेया । तत्र 'गगन' शब्देन 'ह' इत्यक्षरमुच्यते । पीढमिति मूलपीठे यन्त्रस्य सर्वमध्ये 'ह' इत्यक्षरं स्मरत । इह च स्मरणमेवाऽधिकृतम् । स्मरणस्याऽशक्यत्वे पदस्थध्यानसाधनार्थं मनोज्ञद्रव्यैर्वहिका-पट्टादौ लिखनमपि पूर्वाचार्यैराम्नातम् । एवमन्येष्वप्यग्रेतनगाथागणोक्तेषु बीजेषु ध्यानादिकं स्वयमूह्यम् । तत्रादौ हकाराक्षरं लेख्यमिति प्रकृतम् । तत् कीदृशमित्याह - अकलिआयंतमिति । अस्यअकाराक्षरस्य कलिका-व्याकरणसंज्ञामयी वक्रा '5' इत्यकाररूपी(पा)। तया आचान्तं-सहितं-आदौ अकलिकया युक्तम् । ततो 'ऽह' इति भवति । पुनर्गगनबीजं कीदृक् ? उड्डाहसरं ति । उर्वाध: सरं - सह रेण- रकाराक्षरेण वर्तते इति सरम् । हकारस्योद्धमधश्च रो न्यस्यत इत्यर्थः । ततो 'ऽर्ह (ही' इति जातम् । पुनः कीदृशं गगनम् ?-सनायबिंदुकलं ति । नाद इत्यर्द्धचन्द्राकारोऽनुनाशिकः, तन्न्यासः । बिन्दुकला च पूर्णोऽनुस्वारः । ततो नादश्च बिन्दुकला च-एताभ्यां सहितम् । ततो '5' इति जातम् । पुनः कीदृशम् ? - सपणवत्ति । सप्रणवबीजानाहतम् । प्रणव- ने कारः, बीजं - द्वाकारः, अनाहतं च कुण्डलाकारं G) एतादृशं बीजम् । ततश्च द्वन्द्वः, तैः सहितम् । अत्राऽऽम्नाय: -
ऽ मेति बीजं नकारोदरे न्यसेत् । एतच्च बीजद्वयं झाकारोदरे न्यसेत् । ततश्च नाकारस्येकारस्वरात् रेखां पश्चाद् वालयित्वा द्वि:कुण्डलाकारेणाऽनाहतेन तद्बीजत्रयमपि वेष्टयेत् । तन्न्यासः ७ । पुनः कीदृक् ? - अंतसरं ति । अन्ते स्वरा-मातृकोक्ताः 'अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ अं अः' इति लक्षणाः षोडश यस्य तदन्तस्वरम् । पूर्वोक्तस्य सर्वतः स्वरान् न्यसेदित्यर्थः । इत्येता[व]त् कर्णिकायां ध्यायतेत्यर्थः ॥ इति प्रथमगाथा ॥१||
Page #3
--------------------------------------------------------------------------
________________
June 2006
झायह अडदलवलये सपणवमायाइए सवाहंते । सिद्धाइए दिसासुं विदिसासुं दंसणाई (ई )ए ॥ २ ॥
अथ झायह त्ति । इति पीठं लिखित्वा तत्पार्श्वे वृत्तं मण्डलं लिखेत् । तदुपरि अष्टदलकमलाकारं वलयं लिखेत् । तत्राऽष्टदलवलये चतुर्दिक्पत्रेषु प्रणवमायादिकान् स्वाहान्तान् सिद्धादिकान् चतुर्थीबहुवचनान्तान् इत्याम्नायः । ईदृशान् ध्यायेत् । तत्र प्रणव:- कारो, माया-कार:, तावादौ येषां ते तान् । ना सिद्धेभ्यः स्वाहा | पूर्वस्याम् । आचार्येभ्यः स्वाहा । दक्षिणस्याम् । उपाध्यायेभ्यः स्वाहा । पश्चिमायाम् । सार्वसाधुभ्यः स्वाहा । उत्तरदिग्दले लिखेत् ॥ तथैव विदिक्षु दर्शनादीनि चत्वारि पदानि क्रमेण लिखेत् - दर्शनाय स्वाहा । आग्नेयकोणे । ज्ञानाय स्वाहा । नैर्ऋत्याम् । चारित्राय स्वाहा । वायवे (व्याम्) । तपसे स्वाहा । ईशानकोणे ॥ एवमष्टदलं प्रथमवलये
॥२॥
25
बीयवलयम्मि अडदिसि दलेसु साणाहए सरह वग्गे । अंतरदले असु झायइ परमिट्ठपढमपए ॥ ३ ॥ बीवलयमिति गाथा । प्रथमवलयबाह्यतो मण्डलाकारं षोडशदलं न्यसेत् । तत्र द्वितीयवलयेऽष्टस्वेकान्तरितदिग्दलेषु सानाहतान् - अनाहतबीजसहितान् अष्टौ वर्गान् - 'अ-क-च-ट-त-प-य-श' रूपान् क्रमेण लिखेत् । तत्र प्रथमवर्गे षोडश वर्णाः । कवर्गादिषु पञ्चसु प्रत्येकं पञ्च पञ्च वर्णाः । अन्तिमवर्णद्वये प्रत्येकं चत्वारो वर्णाः । अंतरत्ति । अष्टसु वर्गाणामन्तरदलेषु परमेष्टिप्रथमपदान् (नि) ध्याय ( ये ) त् । अष्टस्वेव प्रत्येकं नमो अरिहंताणं' इत्येकमेव पदं लिखेदित्यर्थः । एवं द्वितीयवलए ( ये ) ॥३॥
तई (इ) यवलए वि अडदिसि दिट्टंत अण( णा ) हएहिं अंतरिए । पायाहिणतित्थ (य? ) पंतिआहिं झाएह दलट्ठिएएए ॥ ४ ॥
तईयवलयम्मित्ति । तृतीयवलयेऽष्टसु दिक्षु अष्टावनाहतान् लिखेत् । तांश्च त्रिपङ्क्तिव्यापकान् लिखेत् । द्वयोर्द्वयोरन्तरे द्वे द्वे लब्धिपदे, एवमष्टस्वप्यन्तरेषु षोडश लब्धिपदानि प्रथमपङ्क्तौ । एवं षोडशैव द्वितीयपङ्क्तौ । एवमेव च तृतीयपङ्क्तौ । प्रादक्षिण्येन त्रिभिः पङ्क्तिभिरष्टचत्वारिंशल्लब्धिपदानि ध्यायत ||४||
Page #4
--------------------------------------------------------------------------
________________
26
अनुसन्धान ३६
ते पणवबीय अरिहं नमो जिणाणं ति एअ साहीय ।
अडयालीसं णेया सम्मं सुगुरूवएसेणं ॥५॥ ते पणवत्ति गाथा । ते इति प्राकृतत्वान्नपुंसकस्य पुंस्त्वम् । तानि लब्धिपदानि प्रणव-कारो मायाबीजं-हाकारोऽहमिति सिद्धबीजम् । एतत्पूर्वकं 'नमो जिणाण मिति पदम् । की अहँ नमो जिणाणं' इत्येवमादीन्यष्टचत्वारिंशत्संख्यानि सम्यक सुगुरूपदेशेन ज्ञेयानि । एतेषां नामानि माहात्म्यानि च लब्धिकल्पादवसेयानि । इह त्वाराधनविधिना पुस्तकलिखने दोष इति न लिखितानि ॥५॥
तं तिगुणेणं माया-बीएणं सुद्धसेअवन्नेणं ।
परिवेढिऊण परिहिइ तस्स गुरुपाउए नमह ॥६॥ तं तिगुणेणं ति गाथा । तत् - पीठादिलब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन मायाबीजेन-झाकारेण परिवेष्टयित्वा तस्य परिधौ गुरुपादुका नमत । अत्रायं भावः-सर्वयन्त्रस्योर्वं साकारं विलिख्य तस्येका[रा]त् सर्वयन्त्रपरिक्षेपरूपां रेखां त्रिर्वालयित्वा चतुर्थरेखार्द्धप्रान्ते क्रों इत्यक्षरं लिखेत् । तस्य च परिधौ गुरुपादुका लिखेत् ॥६॥ ता एवाऽऽह
अरिहं-सिद्ध-गणीणं गुरु-परमा-ऽदिट्ठ-णंत-सुगुरूणं ।
दुरणंताण गुरूणं सपणवबीआउ ताओ अ 11७।। अरिहंसिद्धगणीणमिति गाथा । अर्हतां पादुकाः १, सिद्धानां २, गणीणंति आचार्याणां ३, गुरूणां ४, परमगुरूणां ५, अदृष्टगुरूणां ६, अनन्तगुरूणां ७, दुरणंताणंति अनन्तानन्तगुरूणां ८, इत्येवमष्टानामपि ताः पादुका: सप्रणव
Page #5
--------------------------------------------------------------------------
________________
June-2006
27
बीजा:- उसायुक्ताः- अङ्गा अर्हत्पादुकाभ्यो नमः १ इत्यादिकास्तत्र लिखेदित्यर्थः
1॥७॥
रेहादुगकयकलसा-यारामिअमंडलं व तं सरह । . चअदिसि विदिसि कमेणं जयाइ-जंभाइकयसेवं ॥८॥
रेहादुगत्ति । रेखाद्विकेन यन्त्रार्द्ध भागाद् वाम-दक्षिणनिर्गतान्योन्यग्रथितप्रान्तरेखाद्विकेन कृतं यत् कलशाकारममृतमण्डलं तदिव स्मरत कलशाकारं लिखेदित्यर्थः । किविशिष्टं यन्त्रम् ?, चउदिसित्ति । चतुर्दिक्षु विदिक्षु च क्रमेण जयादिभिश्चतसृभिः जया १ विजया २ जयन्ती ३ अपराजिता ४भिः तथा जम्भादिभिः जम्भा १ थम्भा २ मोह! ३ अन्धाभिः ४ कृता सेवा यस्य तत् । तत्र जयादिकाश्चतस्रः क्रमेण पूर्वादिदिक्षु जम्भादिकाश्चाज्ञे(ग्ने)यादिविदिक्षु लिखेत् ॥८॥
सिरिविमलसामिपमुहा-हिडायगसयलदेवदेवीणं ।
सुहगुरुमुझउ जाणिअ ताण पयाणं कुणह झाणं ॥९॥ सिरिविमलसामित्ति गाथा । श्रीविमलस्वामीतिनाम्ना श्रीसिद्धचक्राधिष्टायकस्तत्प्रमुखा येऽधिष्टायका देवा देव्यश्चक्रेश्वर्याद्यास्तासां ध्यानं सुगुरुमुखाद् ज्ञात्वा ताणत्ति-तत्सम्बन्धिनां पयाणं ति- मन्त्रपदानां ध्यानं कुरुत । एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत् । ' श्रीविमलस्वामिने नमः' इत्यादि लिखेत् ।।९।।
तं विज्जादिवि-सासण-सुर-सासणदेविसेविअदुपासं । मूलगहं कंठनिहिं चउपडिहारं च चउवीरं ॥१०॥ दिसिवाल-खित्तवालेहिं सेविअं धरणिमंडलपईवं ।
पूअंताण नराणं नूणं पूरेइ मणइ8 ॥११॥ तं विज्जादिवित्ति गाथा । तथा दिसिवालखित्तवालेहिति गाथा-युग्मस्य व्याख्या । तत् सिद्धचक्र-कर्तृ, पूजयता-नराणां नूनं-निश्चितं मनइष्टमनसोऽभीप्सितं पूरयति । कथम्भूतं तत् ?, विद्यादेव्यः षोडश रोहिण्याद्याः । शासनसुरा गोमुखयक्षाद्याः । शासनदेव्यश्चक्रेश्वर्याद्याः । ततो विद्यादेवीभिः शासनसुरैः शासनदेवीभिश्च सेवितौ द्वौ पाश्वौँ वाम-दक्षिणौ यस्य तत् । पुनः कीदृशम् ?,
Page #6
--------------------------------------------------------------------------
________________ 28 अनुसन्धान 36 मूलगहति / मूले-कलशस्य मूलदेशे ग्रहाः - सूर्यादयो यस्य तत् / तथा कण्ठेगलस्थाने निधयो नव नैसर्पकाद्याः समयप्रसिद्धा यस्य तत् / तथा चत्वारः प्रतिहारद्वारपालाः कुमुदा 1 ऽञ्जन 2 वामन 3 पुष्पदन्ताख्या 4 यस्य तत् / तथा चत्वारो वीरा माणिभद्र 1 पूर्णभद्र 2 कपिल 3 पिङ्गलाख्या 4 यस्य तत् ईदृशम् / ततो विद्यादेव्यः षोडशापि 'या रोहिण्यै नमः, नपा प्रज्ञप्त्यै नमः इत्यादि परितश्चक्रं लिखेत् / शासनसुरा(रा)श्च चक्रस्य दक्षिणदिशि लिखेत् / शासनदेवी (वी:) वामदिशि लिखेत् / तथा चक्रस्य मुले पतद्ग्रहाधः 'मुआदित्याय नमः' इत्यादिनवग्रहाणां नामानि लिखेत् / कण्ठे च वाम-दक्षिणतो नवाऽपि कलशान् कृत्वा तदुपरि नैसर्पकाय नमः' इत्यादि लिखेत् / तथा चतसृषु दिक्षु क्रमेण कुमुद 1 अञ्जन 2 वामन 3 पुष्पदन्तान् 4 लिखेत् / तथा माणिभद्रादींश्चतुरो वीरानप्येवं दिक्षु लिखेत् // 10 // दिसिवालखित्तवालेहिं ति द्वितीया गाथा / दिक्पालैर्दशभिः इन्द्रा-ऽग्नियम-नैर्ऋति-वरुण-वायु-कुबेरे-शान-ब्रह्म-नागनामभिः क्षेत्रपालेन च सेवितम् / ततो(त्र) दशसु दिक्पालेष्वष्टौ दिक्पालान् पूर्वादिक्रमेण लिखेत् - इन्द्राय नमः' इत्यादि / ऊध्र्वं तु 'मुंब्रह्मणे नमः', अधः 'नागाय नमः' / निजदक्षिणभागकोणे 'नक्षेत्रपालाय नमो' लिखेदिति गाथाद्वयार्थः / तथाप्यस्य लिखने सम्यविधिश्चाऽस्याऽऽम्नायविन्मुखाद् यथालिखितचक्राद्वाऽवसातव्यः ||11|| एयं च सिद्धचक्कं कहिअं विज्जाणुवायपरमत्थं / नाएण येण सहसा सिझंति महंतसिद्धीओ // 12 // एयं चेत्यादिगाथा / कण्ठ्या / नवरं विद्यानुवादो नाम नवमं पूर्वं, तस्य परमार्थरूपं रहस्यभूतमित्यर्थः // 12 // इति श्रीमन्नागपुरीयतपागच्छनायक सुविहितशिरशेखर श्रीरत्नशेखरसूरिविरचितायां श्रीश्रीपालराजा(ज)कथा यां] सिद्धचकयन्त्रोद्धारगाथाद्वादशकस्य व्याख्या संक्षेपतो व्यधायि भ० श्रीचन्द्रकीर्तिसूरिभिः // छ / /