Book Title: Pratham Jin Stotra
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229466/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ऑगस्ट २०११ जयानन्दसूरि कृत प्रथम जिनस्तोत्र (टीका) -सं. मुनि सुयशचन्द्र-सुजसचन्द्रविजयौ सोपारकनगर एटले ज हालतुं नालासोपारा, मुम्बइ नजीक थाणा जिल्लामां आवेलुं एक परू. जैन जैनेतर शास्त्रोमां आ नगरीनी प्राचीनताना घणा पुरावा मळे छे. प्रस्तुत कृतिमां कविए सोपारकमण्डण श्रीआदिनाथप्रभुनी स्तुति करी छे. मूळ कृति तो सरळ ज छे. परन्तु कृतिनी टीका कृतिनी सरळतामां वधारो करे छे. भिन्न-भिन्न समये भिन्न-भिन्न गच्छमां समान नामवाला घणा मुनिओ थया छे. प्रस्तुत कृतिकार जयानन्दसूरिजी कया गच्छना छे ? तेनी शोध करता जयानन्दसूरिजी नामना पांच आचार्य थयानी नोंध जैन परम्पराना इतिहासमांथी मळे छे. अहिं अमे जयानन्दसूरिजीना गच्छ सम्बन्धी विचारणा करी छे. जयानन्दसूरिजी नामना आचार्यो - १. सं० १२६४ आसपास सिद्धहेमअवचूर्णिना रचयिता अमरचन्द्रसूरिना गुरु __ जयानन्दसूरि हता. २. वडगच्छमां वादिदेवसूरिजीनी परम्परामां गिरनार उपर प्रतिष्ठा करनारा जयानन्दसूरि सं. १३०५ आसपास थया. ३. स्थूलभद्रचरित्रादि ग्रन्थोना रचयिता तपागच्छीय जयानन्दसूरि सं. १४२० ___ आसपास सोमतिलकसूरिना शिष्य हता. ४. रूद्रपल्लीयगच्छमां सं. १४६८ आसपास उग्रविहारी जयानन्दसूरि थया. जेओ संघतिलकसूरिनी परम्परामां अभयदेवसूरिना शिष्य हता. ५. अञ्चलगच्छमां सं. १४९४ आसपास स्यादिशब्ददीपिकाकार जयानन्दसूरि थया. आ पांच समाननामक आचार्योमांथी कृतिकारनो गच्छ ओळखवो थोडो कठिन छे. तो पण अन्य प्राप्त लेखादि सामग्री परथी कृतिकार तपागच्छना हशे एम अनुमान करवानुं मन थाय छे. तेनां मुख्य बे कारणो छे. Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान-५६ १. जयानन्दसूरिना नामे प्राप्त थती रचनाओमां देवाः प्रभोः स्तोत्र, नेमाड प्रवास गीतादि भक्तिप्रधान रचनाओ तपागच्छना जयानन्दसूरिनी छे. अन्य कोईपण जयानन्दसूरिनी आवी रचनाओ प्राप्त थती नथी.. २. तपा० जयानन्दसूरिजीना गुरुभाई देवसुन्दरसूरिना शिष्य सोमसुन्दरसूरिजीए सोपारकना जिनालयनो जीर्णोद्धार कराव्यो हतो. तेमज सोपारकादि तीर्थोना संघो तेमनी निश्रामां नीकळ्या हता. आ परथी तपागच्छीय परम्परानो आ क्षेत्र परनो प्रभाव जणाय छे. वळी आ वातनी साक्षी पूरती तपा. जिनसुन्दरसूरि आदि आचार्योना हाथे प्रतिष्ठित थयेल प्रतिमाओ आजे पण मळे छे. अन्य गच्छना जयानन्दसूरिजी माटे आवी कोइ दस्तावेजी सामग्री प्राप्त थती नथी. आ बन्ने कारणो ज कृतिकार जयानन्दसूरिजीने तपागच्छना होवानुं अनुमान करवा प्रेरे छे. आ तो अमे मात्र अमारा विचारने रजू को छे. विद्वानो आ अंगे वधु प्रकाश पाडशे एवी आशा छे. टीकाकारश्री सुभोग पाठक तेमज लिपिकार श्रीअमृतकुशल विशे कोइ विशेष माहिती प्राप्त थती नथी. धौर्यपुर पण तद्दन नर्बु ज गामनुं नाम जणाय छे. प्रस्तुत कृतिनी प्रत सम्पादनार्थे आपवा बदल नेमि-विज्ञान-कस्तूरसूरि जैनभण्डारना व्यवस्थापकश्रीनो तेमज प.पू.आ.श्री.विजयसोमचन्द्रसूरि म. सानो खूब खूब आभार. प्रथम जिन स्तोत्र ॥ए ॥ जयानन्दलक्ष्मीलसत्वल्लिकन्दं । सुराधीशसंसेव्यपादारविन्दम् ॥ स्फुरच्चारुचामीकरद्योतिदेहं युगाधीशमानौमि सौपारकेऽहम् ॥१॥ जय = इह लोके शक्तेरप्रतिहन[न]म्, आनन्दः = सर्वेन्द्रियाल्हादहेतुः, लक्ष्मीः = सम्पदा, एतत्त्रयरूपा लसन्ती वल्लिस्तस्याः कन्दं = मूलम् । पुनः Page #3 -------------------------------------------------------------------------- ________________ ऑगस्ट २०११ ___५३ कीदृशम् ? सुराधीशाः = चतुःषष्ठिदेवेन्द्रास्तैः संसेव्यं = पूजनीयम्, पादारविन्दं = चरणकमलम् । पुनः कीदृशम् ? स्फुरत् = दीप्रत्, चारु = मनोहरम्, चामीकरं = सुवर्णम्, तद्वत् द्योति = दीप्यमानम्, देहं = शरीरम्, यस्य सः, तं सुवर्णवर्णम् । ईदृशं युगादीशं = आदीश्वरजिनम्, सोपारके = सोपारकपत्तने, अहं जयानन्दसूरिः, आनौमि = प्रणमामि ॥१॥ तितीर्षामि सिन्धुं भुजाभ्याममानं, चिकीर्षामि पीयूषयूषस्य पानम् । तितंसामि यन्मन्दधीस्तावकानां, स्तवादेव सङ्ख्यातिगानां गुणानाम् ॥२॥ तरितुमिच्छामि = तितीर्षामि । सिन्धुं = समुद्रम्, अमानम् = मानप्रमाणं तद्रहितममानम्, काभ्याम् ? भुजाभ्यां = बाहुभ्याम्, निजबाहुभ्याम् । पुनः किर्ति(कर्तु)मिच्छामि चिकीर्षामि । पीयूषयूषस्य = अमृतरसस्य, पानं = आस्वादनम् । तनोतुमिच्छामि = तितंसामि । यद् अहं मन्दधीः = अल्पबुद्धिः सन् तावकानां = त्वदीयानाम्, सङ्ख्यातिगानां = सङ्ख्य(ङ्ख्या)या अतिगानां अतिक्रान्तानाम्, गुणानां ज्ञानदर्शनचारित्रादिलक्षणानां, स्तवादेव = स्तवनादेव विस्तारयितुमिच्छामि ॥२॥ मनश्चिन्तितातीतवस्तुप्रदेन, द्युसत्पादपेन त्वया जङ्गमेन । नवः कोऽप्ययं नन्दनोद्यानदेशः, प्रभो भ्राजते कुङ्कणाख्यातदेशः ॥३॥ मनश्चिन्तितात् अतीतं = अतिक्रान्तं यद्वस्तु तद्वस्तु-ददातीति मनश्चिन्तितातीतवस्तुप्रदः, तेन मनश्चिन्तितातीतवस्तुप्रदेन ईदृशेन घुसत्पादपेन = कल्पवृक्षेण, त्वया = भवता, जङ्गमेन = पादक्रमणशीलेन त्वया नवः = नवीनः, कः = अनिर्वचनीयः अपि अयं = प्रत्यक्षः, नन्दनोद्यानदेशः = नन्दनवनभूमिसदृशः, हे प्रभो ! = हे स्वामिन् !, भ्राजते = शोभते, कुङ्कणनामदेशः। भावार्थोऽयम्, त्वया कल्पवृक्षेण कुङ्कणदेशः भ्राजते ॥३॥ मयाप्तं फलं जन्मकल्पद्रुमस्य प्रभुत्वं च विश्वस्य विश्वत्रयस्य । Page #4 -------------------------------------------------------------------------- ________________ ५४ यतश्चक्षुषा वीक्षितस्त्वं वरेण्यैश्चिरं सञ्चितैः प्राच्यपुण्यैरगण्यैः ॥४॥ मया जन्मकल्पद्रुमस्य जन्मकल्पवृक्षस्य, फलं प्राप्तम् । च = पुनः, विश्वस्य समस्तस्य, विश्वत्रयस्य = त्रिभुवनस्य, प्रभुत्वं नायकत्वम्, आप्तं लोकत्रयस्वामित्वं प्राप्तम्, यतः = यस्मात् कारणात्, त्वं भगवान्, चक्षुषा नयनेन, वीक्षितः विलोकितः, कैः ? हेतुभूतैः वरेण्यैः = प्रधानैः, चिरं = चिरकालात्, सञ्चितैः = उपार्जितैः, प्राच्यपुण्यैः पूर्वभवजनितधर्मैः अगण्यैः गणनारहितैः ॥४॥ = = = = = = = = - विशिष्टैककाष्टोदयं यानपात्रं, पवित्रं विराजगुणश्रेणिपात्रं । भवत्पादपद्मं विभो ये भजन्ते भवाम्भोधिपारीणतां ते लभन्ते ॥५॥ = दारवः, तैः उदयं विशिष्टानि, एकानि अद्वितीयानि, काष्टानि उत्पन्नम्, प्रधानाद्वितीयदारूनिष्पन्नम्, यानपात्रं बोहित्थम्, पवित्रं पावनम्, विराजन्ति = शोभन्ति (न्ते), गुणानां श्रेणिः तस्याः पात्रं = स्थानम्, ईदृशं भवत्पादपद्मं त्वत्चरणकमलम्, हे विभो ! = हे स्वामिन् ! ये भजन्ते सेवन्ते, ते जनाः भवाम्भोधिपारीणतां लभन्ते संसारसमुद्रपारत्वम्, प्राप्नुवन्ति ॥४॥ = = = = = = = अहं भाग्यहीनो भवन्तं प्रपद्य, प्रभो भाग्यवानद्य जातोऽस्मि सद्यः । = = अनुसन्धान-५६ = दृषत्खण्डमप्यागतं स्वर्णशैले, सुवर्णं न किं जायते वा विशालम् ॥६॥ इष्टं आतं अधुना, सद्यः = भाग्ययुक्तो अहं भाग्यहीनः = पुण्यरहितः भवन्तं = त्वाम्, प्रपद्य = अवलम्ब्य, हे प्रभो ! अद्य तत्कालम्, भाग्यवान् जातोस्मि भाग्यवान् सम्पन्न: । दृष्टान्तमाह । दृषत्खण्डमपि शकलमपि, स्वर्णशैले सुवर्णमयगिरौ -मेरौ, आगतं प्राप्तम्, सुवर्णं कनकम्, न = नहि, किं कथम्, वा जायते, सुवर्णभावं किं न प्राप्नोति, विशालं = प्रस्तर = विस्तीर्णम्, अपितु प्राप्नोति एव । - = = - Page #5 -------------------------------------------------------------------------- ________________ ऑगस्ट २०११ विदेशंगमी प्राप्य सत्सार्थवाहम्, यथा मोदते चातकोचा( तकश्चाऽ )म्बुवाहम् । तथाहं भवन्तं शिवश्रीविनोदम् समासाद्य सद्यः प्रपद्ये प्रमोदम् ॥७॥ विदेशंगमी = विदेशे गमनशीलः, सत्सार्थवाहम् = शोभन-सार्थपति, प्राप्य = लब्ध्वा, यथा = येन प्रकारेण, मोदते = हर्षयुक्तो भवति । पुनः चातको = बप्पीहः, अम्बुवाहम् = मेघं प्राप्य, प्राप्य, यथा मोदते = तुष्टो भवति, तथा तेन प्रकारेण, अहं भवन्तं = त्वाम्, शिवश्रीविनोदं = मोक्षलक्ष्मीविलासम्, समासाद्य = सम्प्राप्य, सद्यः = तत्कालम्, प्रमोदं = हर्षम्, प्रपद्ये = प्राप्नोमि ॥७॥ कदा देव ! ते सेवकोऽहं भवेयं, कदा शासनं तावकीनं भजेयं । कदा दर्शने दर्शनात् पावयेयं, कदा त्वत्पदाब्जं च चित्तं नयेयम् ॥८॥ हे देव ! = हे प्रभो ! ते तव, सेवकः = किङ्करः, कदा = कस्मिन् काले, भवेयं = भवामि, तव दासोऽहं कदा भवामि ! कदा = कस्मिन् काले, शासनम् = आज्ञाम्, तावकीनं = भवदीयं, भजेयं = भजे, तवाज्ञापालकः कदा भवामि भविष्यामि, कदा = कस्मिन् काले, तव दर्शने = तवावलोकने, दर्शनात् = सम्यक्त्वात्, अहं पावयेयं = पावनतरो भवामि । पुनः कदा कस्मिन् काले, त्वत्पदाब्जं = भवत्चरणकमलम्, चित्तं = निजमनसि, नयेयम् = प्रापयामि ॥८॥ महातीर्थशत्रुञ्जयोपत्यकायां, सुसम्पद्विलासोल्लसद्भूमिकायाम् । पुरे सारसोपारके मूर्तिरेखा, मुदेऽस्तु त्वदीया दृशोरिन्दुलेखा ॥९॥ महातीर्थस्य = सर्वोत्तमतीर्थस्य, शत्रुञ्जयस्य = सिध्धाचलस्य, उपत्यकायां = आसन्नभूमौ, सिध्धाचलनिकटस्थाने, सुसम्पत् = शोभनसम्पदा, Page #6 -------------------------------------------------------------------------- ________________ ५६ अनुसन्धान-५६ तस्या विलासस्य = क्रीडायाः, उल्लसन्ती भूमिका = स्थानम्, तस्याम्, श्रेष्ठलक्ष्मीकेलिसद्मनि ईदृशे पुरे = नगरे, सारसोपारके = सोपारपत्तने, एषा प्रत्यक्षा, मूर्तिः = आकृतिः, तव बिम्बं, मुदे = हर्षाय, अस्तु = भवतु । त्वदीया = तावकीना, कीदृशी मूतिः ? दृशो:-नयनयोः, इन्दुलेखा = चन्द्रकलोपमा ॥९॥ विभो तावकीन प्रसादादशेषाः, समेषां भवन्तीष्टलक्ष्मीविशेषाः । दुरापं भवेद्वस्तु किं कल्पवृक्षे जनानां मनोभीष्टदानैकदक्षे ॥१०॥ हे विभो ! = हे स्वामिन् । तावकीनप्रसादात् = त्वदीयमहिम्नः, अशेषाः = समस्ताः, समेषां = सर्वजनानाम्, इष्टलक्ष्मीविशेषाः = वाञ्छितकमलाप्रकाराः, भवन्ति सम्पद्यन्ते ॥ दृष्टान्तमाह-दुरापं = दुर्लभम्, भवेद्वस्तु = वस्तु पदार्थात्मकम्, किं = किमपि, कल्पवृक्षे = सुरपादपे, जनानाम् = प्राणिनाम्, कीदृशे कल्पवृक्षे ? मनोभीष्टदानैकदक्षे = मनोवाञ्छितप्रदानाद्वितीयचतुरे । भावस्तु-कल्पवृक्षे सति किं दुःप्रापम् ? अपितु न किमपि । निरुपममहिमश्रीसारसोपारनामप्रवरनगरलक्ष्मीकामिनीकङ्कणाभः । प्रथमजिन ! मयैवं संस्तुतस्त्वं च भक्त्या जिन ! विशदपदाब्जोपासनां देव ! देयाः ॥११॥ इति प्रथम जिन स्तोत्रं सम्पूर्णम् ॥ निरुपमः = उपमारहितो महिमा, तस्य श्रीः = शोभा, तया-सारम् = प्रधानम्, सोपारनाम प्रवरनगरं = सुन्दरपत्तनम्, तस्य लक्ष्मीः = श्रीः ? कान्तिरेव, कामिनी = युवतिः, तस्या:-कङ्कणे = कनकवलये, तयोरिव आभा = शोभा । [गाथार्थः] निरुपम उपमावर्जितप्रभावशोभाभासुरसोपारपुरनारीलक्ष्मीहस्तकङ्कणसमः । हे प्रथमजिन = हे प्रथम तीर्थंकर ! मया = जयानन्दसूरिणा, एवं = पूर्वोक्तप्रकारेण, संस्तुत = स्तुतिविषयीकृतः, त्वं = प्रथमजिनः, भक्त्या = Page #7 -------------------------------------------------------------------------- ________________ ओगस्ट 2011 57 श्रद्धातिशयेन, हे जिन ! = हे भगवन् ! हे देव ! = हे प्रभो ! विशदपदाब्जोपासनां = निर्मलचरणकमलसेवनाम्, देयाः = त्वं देहि, मम इति शेषः // इति वृत्तार्थः // 11 // इत्थं जयानन्दगणाधिराजविनिर्मिते स्तोत्रवरे जिनस्य नाभेयनाम्नोल्पतराऽत्र वृत्तिश्चक्रे सुभोगाभिधपाठकेन / इति जयानन्दसूरिसंस्तुतश्रीयुगादिजिन स्तोत्रं पवित्रं सम्पूर्णम् /